SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. 11 2 11 Jain Education उ० गुर्व्वीत्यादि ॥ गुर्व्वी पिंडविशुद्धिराधाकर्मिकादित्यागेन द्रव्याद्यभिग्रहा द्रव्यक्षेत्रकालभावाभिग्रहाश्चैव चित्रा नानाप्रकाराः समयप्रसिद्धा, विकृतीनां क्षीरादीनां संत्यागः तथैकंसिक्थं यत्र तदादिपारणकमुपवासादितपोदिनानंतरदिनभोज* नमादिनैककवलादिग्रहः ॥ ५ ॥ अनियतविहारकल्पः कायोत्सर्गादिकरणमनिशं च ॥ इत्यादि वाह्यमुच्चैः कथनीयं भवति बालस्य ||६|| ० अनियतविहारकल्पः अनियतश्चासौ विहारश्च नैकक्षेत्रवासित्त्वं । तस्य कल्पः समाचारः कायोत्सर्गादिकरणमनिशं च ॥ कायोत्सर्गस्यादिशब्दान्निषद्याकरणमासेवनमित्यादि । बाह्यमुचैर्बाह्यमनुष्ठानं प्रतिश्रयप्रत्युपेक्षणप्रमार्जनकालग्रहणादि | कथनीयं भवति । बालस्य सर्व्वथोपदेष्टव्यं हितकारीति ॥ ६ ॥ उ० अनियतेत्यादि । अनियतस्याप्रतिबद्धस्य विहारस्य कल्पः समाचारो नवकल्पादिनीत्या च पुनरनिशं कायोत्सर्गादिक| रणमादिनातापनादिग्रहः । इत्यादि बाह्यमनुष्ठानमुच्चैरतिशयेन बालस्य कथनीयं भवति । आदिना प्रतिश्रयप्रत्युपेक्षणप्रमार्जनकालग्रहणादिग्रहणम् ॥ ६ ॥ इदानीं मध्यमबुद्धेर्देशनाविधिमाह || | मध्यमबुद्धेस्त्वीर्यासमितिप्रभृति त्रिकोटिपरिशुद्धं ॥ आद्यंतमध्ययोगैर्हितदं खलु साधुसद्वृत्तम् ॥ ७ ॥ य० मध्यमबुद्धेस्तु मध्यमबुद्धेः पुनर्यासमितिप्रभृति ईर्यासमित्यादिकं ॥ प्रवचनमातृरूपं साधुसद्वृत्तं समाख्येयमितियोगः । तच्च कीदृशं साधूनां सद्वृत्तं त्रिकोटिपरिशुद्धं रागद्वेषमोहत्रयपरिशुद्धं । अथवा तिस्रः कोटयो हननपचनक्रयणरूपाः For Private & Personal Use Only टीकाद्वयसमेतम्. ॥ ८ ॥ jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy