SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Jain Education तेउपानहौ यस्य सोऽयमनुपानत्कस्तद्भावस्तत्त्वं । अथ धरा शय्या धरा पृथ्वी सैव शय्या शयनीयं नान्यत्पर्यकादि । प्रहरद्वयं रजन्याः स्वापः प्रथमयामे स्वाध्यायकरणं सामान्येनैव साधूनां द्वितीयतृतीयप्रहरयोस्तु स्वापः स्वपनं चतुर्थे पुनः स्वाध्यायकरणं समयनीत्या शीतोष्णसहनं च शीतोष्णयोः सहनं स्वसामर्थ्यापेक्षयार्त्तध्यानादिपरिहारेण ॥ ३ ॥ उ० तस्या एव बालदेशनाया अभिलापमाह । सम्यगित्यादि । सम्यग्यथोपदेशं लोचविधानं यतीनामावश्यकं हिशब्दश्चार्थे सर्वत्र संबंधनीयोनुपानत्कत्वं च पादत्राणरहितभावश्च अथ धरैव शय्या नान्यत्पर्यकादि, रजन्याः प्रहरद्वयं द्वितीयतृतीयौ प्रहरावेव स्वापः शयनं, प्रथमचतुर्थयोः स्वाध्याय एव प्रवृत्तेः, शीतोष्णसहनं तथानुकूलप्रतिकूलपरीषहतितिक्षा ॥ ३ ॥ षष्ठाष्टमादिरूपं चित्रं बाह्यं तपो महाकष्टं ॥ अल्पोपकरणसंधारणं च तद्दुद्धता चैव ॥ ४ ॥ य० षष्ठाष्टमादिरूपं समयप्रसिद्धं चित्रं नानाप्रकारं वाह्यं तपो महाकष्टं दुरनुचर मल्पसत्त्वैर्दुर्बल संहननैश्चेतिकृत्वा अल्पोपकरणसंधारणं च अल्पमेवोपकरणं । तच्छुद्धता चैव उद्गमादिदोषविशुद्ध्या ॥ ४ ॥ उ० षष्ठेत्यादि । षष्ठाष्टमादिरूपं समयप्रसिद्धं चित्रं नानाप्रकारं महाकष्टमल्पसत्त्वैर्दुर्बल संहननैश्च दुरनुचरमितिकृत्वा अल्पस्यैवोपकरणस्योपधिकादेः संधारणं च तच्छुद्धता चैवोद्गमादिदोषशुद्ध्या ॥ ४ ॥ गुर्वी पिंडविशुद्धिश्चित्रा द्रव्याद्यभिग्रहाश्चैव ॥ विकृतीनां संत्यागस्तथैकसिक्थादिपारणकं ॥ ५ ॥ ० गुब्वी पिंडविशुद्धिराधाकर्मादित्यागेन चित्रा द्रव्याद्यभिग्रहाश्चैव द्रव्यक्षेत्र कालभावाभिग्रहाः समयप्रसिद्धाः । विकृतीनां संत्यागः क्षीरादीनां । तथैकसिक्थादिपारणकं । एकंसिक्थं भोजनं पारण के आदिशब्दादेककवलादिग्रहः ॥ ५ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy