SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश टीकाद्वय प्रकरणम्. समेतम्. उ० गुरुर्बालादीनां विधिना देशनां दद्यादित्युक्तं तद्विधिमेवाह बालमित्यादि मुपायानाह वालादीनामित्यादि।बालादीनां प्रागुक्तानां तद्विदस्तत्स्वरूपविदः सद्धर्मदेशनायामयमिह वक्ष्यमाणः सिद्धांततत्त्वज्ञेर्विधिीतः॥१॥ तत्र बालस्य परिणाममाश्रित्य हितकारिणी देशनामाह ॥ बाह्यचरणप्रधाना कर्त्तव्या देशनेह बालस्य ॥ स्वयमपि च तदाचारस्तदग्रतो नियमतः सेव्यः॥२॥ य० बाह्यचरणप्रधाना बाह्यानुष्ठानप्रवरा कर्त्तव्या विधेया देशना प्ररूपणा इह प्रक्रमे बालस्याद्यस्य धार्थिनः स्वयमपि चात्मनापि च तदाचारः सचासावाचारश्चोपदिश्यमानाचारस्तदग्रतो बालस्याग्रतः नियमतो नियमेन सेव्यो भवत्याचरणीयः। यदि पुनः स्वयमन्यथा सेव्यते अन्यथा चोपदिश्यते तदा तद्वितथाशंकां जनयत्यतस्तद्भाववृद्धये समुपदिश्यमानं तथैवासेव्यमिति ॥२॥ उ० ततो बालोचितदेशनामाह । बाह्येत्यादि । इह प्रक्रमे बालस्याद्यस्य धर्मार्थिनो बाह्यचरणप्रधाना बाह्याचारमुख्योद्देश्यका देशना कर्त्तव्या स्वयमपि चात्मनापि च तदाचारो बाह्याचारस्तदग्रतो वालस्याग्रतो नियमतः सेव्यो भवति । | स्वयमुपदिश्यमानाचाराकरणे वितथाशंकया श्रोतुर्मिथ्यात्ववृद्धिप्रसंगात् ॥ २॥ तामेव बालस्य देशनामाह ॥ सम्यग्लोचविधानं ह्यनुपानत्कत्वमथ धरा शय्या ॥प्रहरद्वयं रजन्याः स्वापः शीतोष्णसहनं च ॥३॥ य. सम्यग्लोचविधानं लोचकरणं कथनीयं भवतीतियोगः। हिशब्दश्चार्थे। सर्वत्राभिसंबंधनीयोऽनुपानकत्वं च॥नविद्ये ॥ ७ ॥ Jain Educat i onal For Private Personal Use Only IMw.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy