SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश टीकाद्वय प्रकरणम्. समेतम्. उ० गुरुर्बालादीनां विधिना देशनां दद्यादित्युक्तं तद्विधिमेवाह बालमित्यादि मुपायानाह वालादीनामित्यादि।बालादीनां प्रागुक्तानां तद्विदस्तत्स्वरूपविदः सद्धर्मदेशनायामयमिह वक्ष्यमाणः सिद्धांततत्त्वज्ञेर्विधिीतः॥१॥ तत्र बालस्य परिणाममाश्रित्य हितकारिणी देशनामाह ॥ बाह्यचरणप्रधाना कर्त्तव्या देशनेह बालस्य ॥ स्वयमपि च तदाचारस्तदग्रतो नियमतः सेव्यः॥२॥ य० बाह्यचरणप्रधाना बाह्यानुष्ठानप्रवरा कर्त्तव्या विधेया देशना प्ररूपणा इह प्रक्रमे बालस्याद्यस्य धार्थिनः स्वयमपि चात्मनापि च तदाचारः सचासावाचारश्चोपदिश्यमानाचारस्तदग्रतो बालस्याग्रतः नियमतो नियमेन सेव्यो भवत्याचरणीयः। यदि पुनः स्वयमन्यथा सेव्यते अन्यथा चोपदिश्यते तदा तद्वितथाशंकां जनयत्यतस्तद्भाववृद्धये समुपदिश्यमानं तथैवासेव्यमिति ॥२॥ उ० ततो बालोचितदेशनामाह । बाह्येत्यादि । इह प्रक्रमे बालस्याद्यस्य धर्मार्थिनो बाह्यचरणप्रधाना बाह्याचारमुख्योद्देश्यका देशना कर्त्तव्या स्वयमपि चात्मनापि च तदाचारो बाह्याचारस्तदग्रतो वालस्याग्रतो नियमतः सेव्यो भवति । | स्वयमुपदिश्यमानाचाराकरणे वितथाशंकया श्रोतुर्मिथ्यात्ववृद्धिप्रसंगात् ॥ २॥ तामेव बालस्य देशनामाह ॥ सम्यग्लोचविधानं ह्यनुपानत्कत्वमथ धरा शय्या ॥प्रहरद्वयं रजन्याः स्वापः शीतोष्णसहनं च ॥३॥ य. सम्यग्लोचविधानं लोचकरणं कथनीयं भवतीतियोगः। हिशब्दश्चार्थे। सर्वत्राभिसंबंधनीयोऽनुपानकत्वं च॥नविद्ये ॥ ७ ॥ Jain Educat i onal For Private Personal Use Only IMw.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy