SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीषोडशप्रकरणम्. ॥ ६ ॥ य० यद्यस्माद्भाषितमुक्तं। मुनींद्रेः समययुक्तैः पापं खलु वर्त्तते देशना परस्थाने बालसंबंधिनी मध्यमबुद्धेस्तत् संबंधिनी बुधस्य स्थाने किमित्याह । उन्मार्गनयनमुन्मार्गप्रापणमेतद्विपरीतदेशनाकरणं । भवगहने संसारगहने दारुणविपाकं तीव्र - विपाकं ते हि विपरीतदेशनयान्यथा चान्यथा च प्रवर्त्तत इति कृत्वा ॥ १४ ॥ उ० उक्तमेवार्थं व्यतिरेकेण द्रढयति । यदित्यादि । यद् यस्माद्भाषितं मुनींद्रैः परमज्ञानिभिः पापं खलु वर्त्तते देशना | परस्थाने बालादियोग्या मध्यमादिस्थाने एतद्विपरीतदेशनाकरणमपरिणामस्यातिपरिणामस्य वा जननात् श्रोतुरुन्मार्गनयनं भवगहने संसारकानने दारुणविपाकं वा कुशीलताया महानर्थहेतुत्वप्रतिपादनात् ॥ १४ ॥ कथं पुनर्देशना स्वरूपेण समयोक्तत्वेन । सुंदरापि सती परस्थानेऽपायमित्याह ॥ | हितमपि वायोरौषधमहितं तत् श्लेष्मणो यथात्यंतं ॥ सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति ॥ १५ ॥ य० हितमपि योग्यमपि वायोः शरीरगतस्य वातस्य औषधं स्नेहपानादि अहितं तदेवौषधं श्लेष्मणो यथात्यंतं भवति । तत्प्रकोपहेतुत्वेन सद्धर्म्मदेशनौषधं स्वरूपेण सुंदरमपि तदवज्ञानहेतुत्वेन एवमहितं भवति । बालाद्यपेक्षमिति । बालमध्यमबुद्धिबुधापेक्षं तस्मात्तदपायभीरुणा । तद्धितप्रवृत्तेन च गुरुणा तेषां भावं विज्ञाय देशना विधेयेति शास्त्रोपदेशः॥ १५ ॥ उ० समयोक्तत्वेन स्वरूपतः शोभनाया अपि देशनायाः परस्थानेऽहितत्वे दृष्टांतमाह । हितमित्यादि । तत् प्रसिद्धमौषधं स्नेहपानादि वायोः शारीरवातस्य सात्म्यापादकत्वेन हितमपि यथा श्लेष्मणोऽत्यंतमहितं भवति तत्प्रकोपहेतुत्वादेवं सद्ध१ समयज्ञैः । Jain Education International For Private & Personal Use Only टीकाद्वय समेतम्. ॥६॥ www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy