________________
श्रीषोडशप्रकरणम्.
॥ ६ ॥
य० यद्यस्माद्भाषितमुक्तं। मुनींद्रेः समययुक्तैः पापं खलु वर्त्तते देशना परस्थाने बालसंबंधिनी मध्यमबुद्धेस्तत् संबंधिनी बुधस्य स्थाने किमित्याह । उन्मार्गनयनमुन्मार्गप्रापणमेतद्विपरीतदेशनाकरणं । भवगहने संसारगहने दारुणविपाकं तीव्र - विपाकं ते हि विपरीतदेशनयान्यथा चान्यथा च प्रवर्त्तत इति कृत्वा ॥ १४ ॥
उ० उक्तमेवार्थं व्यतिरेकेण द्रढयति । यदित्यादि । यद् यस्माद्भाषितं मुनींद्रैः परमज्ञानिभिः पापं खलु वर्त्तते देशना | परस्थाने बालादियोग्या मध्यमादिस्थाने एतद्विपरीतदेशनाकरणमपरिणामस्यातिपरिणामस्य वा जननात् श्रोतुरुन्मार्गनयनं भवगहने संसारकानने दारुणविपाकं वा कुशीलताया महानर्थहेतुत्वप्रतिपादनात् ॥ १४ ॥
कथं पुनर्देशना स्वरूपेण समयोक्तत्वेन । सुंदरापि सती परस्थानेऽपायमित्याह ॥
| हितमपि वायोरौषधमहितं तत् श्लेष्मणो यथात्यंतं ॥ सद्धर्मदेशनौषधमेवं बालाद्यपेक्षमिति ॥ १५ ॥ य० हितमपि योग्यमपि वायोः शरीरगतस्य वातस्य औषधं स्नेहपानादि अहितं तदेवौषधं श्लेष्मणो यथात्यंतं भवति । तत्प्रकोपहेतुत्वेन सद्धर्म्मदेशनौषधं स्वरूपेण सुंदरमपि तदवज्ञानहेतुत्वेन एवमहितं भवति । बालाद्यपेक्षमिति । बालमध्यमबुद्धिबुधापेक्षं तस्मात्तदपायभीरुणा । तद्धितप्रवृत्तेन च गुरुणा तेषां भावं विज्ञाय देशना विधेयेति शास्त्रोपदेशः॥ १५ ॥ उ० समयोक्तत्वेन स्वरूपतः शोभनाया अपि देशनायाः परस्थानेऽहितत्वे दृष्टांतमाह । हितमित्यादि । तत् प्रसिद्धमौषधं स्नेहपानादि वायोः शारीरवातस्य सात्म्यापादकत्वेन हितमपि यथा श्लेष्मणोऽत्यंतमहितं भवति तत्प्रकोपहेतुत्वादेवं सद्ध१ समयज्ञैः ।
Jain Education International
For Private & Personal Use Only
टीकाद्वय
समेतम्.
॥६॥
www.jainelibrary.org