SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Jain Education वचनमागमस्तद्वचनमतींद्रियार्थदृशा सर्वज्ञेन व्यक्तं प्रतिपादितार्थमन्यस्यादृष्टार्थाभिधानशक्त्यभावात्सर्वमिदं वचनमनादि | स्यात् सर्वक्षेत्रापेक्षप्रवाहतस्तत आपातविरुद्धेऽप्यर्थे एतदाज्ञैव प्रमाणमित्येवंप्रकारैरैदंपर्यस्य शुद्धिरवसेया ॥ १२ ॥ एवं त्रयाणां सद्धर्म्मपरीक्षकाणां सप्रपंचं लक्षणमभिधायतद्गतदेशनाविधिमाह ॥ बालादिभावमेवं सम्यग्विज्ञाय देहिनां गुरुणा ॥ सद्धर्मदेशनापि हि कर्त्तव्या तदनुसारेण ॥१३॥ य० बालादीनां भावः परिणामविशेषः स्वरूपं वा तमेवमुक्तनीत्या सम्यगवैपरीत्येन विज्ञायावबुध्य देहिनां जीवानां गुरुणा शास्त्राभिहितस्त्ररूपेण । यथोक्तं । “धर्म्मज्ञो धर्मकर्त्ता च सदा धर्म्मप्रवर्त्तकः । सत्वेभ्यो धर्मशास्त्रार्थदेशको | गुरुरुच्यते” ॥ सद्धर्मस्य देशनापि हि प्रतिपादना कर्त्तव्या । तदनुसारेण बालादिपरिणामानुरूपेण यस्य यथोपकाराय | संपद्यते देशना तस्य तथा विधेयेति ॥ १३ ॥ उ० एवं सद्धर्मपरीक्षकाणां बालादिभेदत्रयमुक्त्वा तद्गतदेशनाविधिमाह । बालादीत्यादि । बालादीनां भावं रुचिविशेषमेव मुक्तरीत्या सम्यगवैपरीत्येन विज्ञायावबुद्ध्य देहिनां गुरुणा सद्धर्मदेशनापि हि तदनुसारेण बालादिपरिणामानुरूप्येण कर्त्तव्या तथैव तदुपकारसंपत्तेः ॥ १३ ॥ अत्रैव हेतुद्वारेण व्यतिरेकमाह ॥ यद्भाषितं मुनींद्रैः पापं खलु देशना परस्थाने ॥ उन्मार्गनयनमेतद्भव गहने दारुणविपाकं ॥१४ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy