________________
आदिशब्दादपवादो विशेषो ग्लानादिप्रयोजनगतस्ताभ्यां युक्तं । अलमत्यर्थमैदंपर्यशुद्धं च इदं परं प्रधानमस्मिन्वाक्य इतीदंपरं तद्भाव ऐदंपर्य वाक्यस्य तात्पर्य शक्तिरित्यर्थस्तेन शुद्धं यदागमतत्त्वं तदिह ज्ञेयमिति ॥१०॥
उ० आगमतत्त्वमाश्रित्याह आगमेत्यादि । आगमतत्त्वं तत् प्रसिद्ध ज्ञेयं भवति दृष्टं प्रत्यक्षानुमाने इष्टं स्वाभ्युपगत आगमस्ताभ्यामविरुद्धमबाधितार्थ वाक्यं यस्य तत्तथा तयोत्सर्गादिनोत्सर्गापवादाभ्यां समन्वितं नतु तदेकांतवाददुष्टं अलमत्यर्थमैदंपर्येण भावार्थेन शुद्धं च नतु श्रुतमात्रेणाविच्छिन्नाकांक्षम् ॥ १०॥
तदेवागमतत्त्वमुपन्यस्यति ग्रंथकारः॥ आत्मास्ति स परिणामी बद्धः सत्कर्मणा विचित्रेण ॥ मुक्तश्च तद्वियोगाद्धिसाहिंसादि तद्धेतुः ॥११॥ । य० आत्मा जीवः सोऽस्ति । लोकायतमतनिरासेनैव यत्र प्रतिपाद्यते, तदागमतत्त्वमित्येवंपदांतरेष्वपि संबंधनीयं । स परिणामी । स पूर्वप्रस्तुत आत्मा परिणामी परिणामसहितः । पंचस्वपि गतिष्वन्वयी चैतन्यस्वरूपः पुरुषः परिणामलक्षणं चेदं । परिणामो ह्यर्थातरगमनं । नच सर्वथा व्यवस्थानं । “नच सर्वथा विनाशः परिणामस्तद्विदामिष्टः”। सच परिणामी जीवो बद्धः सत्कर्मणा विचित्रेण वस्तु सत्कर्म न काल्पनिकं वासनादिस्वभावं तेन बद्धो जीवप्रदेशकर्मपुद्गलाऽन्योन्यानुगतिपरिणामेन यथोक्त बंधाधिकारे । “तत् पौद्गलमात्मस्थमचेतनमतींद्रियं । बंधं प्रत्यादि सत्कर्म संततिं प्रत्यना-18 दिकं " मुक्तश्च तद्वियोगात्कर्मवियोगादात्यंतिककर्मपरिक्षयात् । हिंसाहिंसादितद्धेतुरिति हिंसा आदिर्यस्यतद्धिंसादि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org