SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ ४ ॥ य० गुरून् दोषान् प्रवचनोपघातकारिण आरब्धुं शीलमस्येति गुरुदोषारंभी तद्भावस्तया । लघुषु सूक्ष्मेषु दोषेष्वकरणयनः | परिहारादरस्तस्माच्च । निपुणधीभिः कुशलबुद्धिभिः । तथा सतां सत्पुरुषाणां साधुश्रावकप्रभृतीनां निंदादि निंदा गह प्र द्वेषादिः तस्माच्च ज्ञायत एतदपरिशुद्धानुष्ठानं । नियोगेनावश्यं तया । यो हि गुरुदोषादिषु प्रवर्त्तते तस्यांतःकरणशुद्धेरभावादसदनुष्ठानमेतदिति निश्चीयते ॥ ९॥ उ० यथा बुधैरिदमशुद्धं ज्ञायते तथाह । गुर्वित्यादि । गुरून् दोषान् प्रवचनोपघातादीनारब्धुं शीलं यस्य स तथा तत्तया यो लघुषु सूक्ष्मेषु दोषेष्वकरणयत्नः परिहारादरस्तस्मान्निपुणधीभिः कुशलबुद्धिभिस्तथा सतां सत्पुरुषाणां साधुश्राद्धादीनां निंदादेर्गप्रद्वेषादेश्च ज्ञायते यदेतदपरिशुद्धानुष्ठानं नियोगेनावश्यंतया गुरुदोषारंभादेरपरिशुद्धिकार्यत्वात् ॥ ९ ॥ आगमतत्त्वं तु बुधः परीक्षत इत्युक्तं किं पुनस्तदित्याह ॥ आगमतत्त्वं ज्ञेयं तद्दृष्टेष्टाविरुद्धवाक्यतया ॥ उत्सर्गादिसमन्वितमलमैदं पर्यशुद्धं च ॥ १० ॥ Jain Education International ० आगमतत्त्वं ज्ञेयं भवति । तत्कथं ज्ञेयं । दृष्टं प्रत्यक्षानुमानप्रमाणोपलब्धमिष्टमागमेन स्ववचनैरेवाभ्युपगतं ताभ्याम| विरुद्धानि वाक्यानि यस्मिन्नागमतत्त्वे तत् दृष्टेष्टाविरुद्धवाक्यं तद्भावस्तया योऽर्थः प्रत्यक्षानुमानाभ्यां परिच्छिद्यते तस्मि न्यथागमतत्त्वमप्यविरोधि भवति तद्विरुद्धस्य ताभ्यामेव निराकरणात् प्रत्यक्षानुमानविरुद्धस्याप्रमाणत्वात् स्ववचनैरेवागमेनाभ्युपगतेऽर्थे प्रदेशांतरवर्त्तिनास्यैवागमस्य वचनं यदि विरोधि न भवेदित्यर्थतस्तत् आगमतत्त्वमिष्टाविरोधिवाक्यं ४ भवति परस्पराविरोधिवचनमित्यर्थः । तदेव विशिनष्टि उत्सर्गादिसमन्वितमुत्सर्गः सामान्यं यथा न हिंस्याद्भूतानि ॥ ४ ॥ टीकाद्वय समेतम्. For Private & Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy