________________
निवृत्तिमदहिंसाद्यात्मकं सदनुष्ठानं प्रोक्तं कार्ये सदनुष्ठानरूपे हेतोरांतरचारित्रपरिणामरूपस्योपचारेणाध्यारोपेण ॥७॥ । एतच्च सदनुष्ठानं शुद्धाशुद्धभेदं तद्वयमप्याह ॥ परिशुद्धमिदं नियमादांतरपरिणामतःसुपरिशुद्धात्॥अन्यदतो न्यस्मादपि बुधविज्ञेयं त्वचारुतया ॥८॥ ___ या परिशुद्धं सर्वप्रकारशुद्धमिदं सदनुष्ठानं नियमान्नियमेनान्तरपरिणामतस्तथाविधचारित्रमोहनीयकर्मक्षयोपशमादिजन्यात्सुपरिशुद्धाछास्त्रानुसारेण सम्यक्त्वज्ञानमूलादितिभावः । अन्यदित्यपरिशुद्धमतोन्यस्मादांतरपरिणामाद्योऽन्यः कश्चि द्धतुर्लाभपूजाख्यात्यादिस्ततोऽन्यस्मादपि प्रवर्त्तते । ननु परिशुद्धापरिशुद्धयोः सदनुष्ठानयोः स्वरूपं तुल्यमेवोपलभामहे, तत्कथं प्रतिनियतस्वरूपतया ज्ञायत इत्याह बुधविज्ञेयं त्वचारुतया बुधबैस्तत्त्वविद्भिरेवाचारुतया असुंदरत्वेनेतररूपवि-| |विक्तं तद्विज्ञायते यथा अचार्विति । न पुनरितरैस्तेषां तद्गतविशेषानुपलंभादिति ॥८॥ ___ उ० एतच्च सदनुष्ठानं शुद्धाशुद्धतया द्विभेदमित्याह । परिशुद्धमित्यादि । परिशुद्धं सर्वथा शुद्धमिदं सदनुष्ठानं नियमादांतरपरिणामतश्चारित्रमोहक्षयोपशमजन्या(निता)त्सुष्ठु सम्यक्त्वज्ञानमूलत्वेन परिशुद्धात् अन्यदित्यपरिशुद्धमतोऽस्मादांतरपरिणामात् योऽन्यः कश्चिद्धेतुर्लाभपूजाख्यात्यादिस्तदपि एतदपीतरतुल्यत्वेनैव प्रतीयते । तत्राह । बुधविज्ञेयं तु तत्त्वविभिरेव विज्ञेयमचारुतयासुंदरत्वेन । त एव हि क्षीरनीरविवेचका नान्ये इति ॥८॥
कः पुनर्विशेषो यदुपलंभात्सदनुष्ठानासदनुष्ठानयोरिदमवधार्यते परिशुद्धमेतदिति तदुपदर्शनार्थमाह ॥ गुरुदोषारंभितया तेष्वकरणयत्नतो निपुणधीभिः ॥ सन्निंदादेश्च तथा ज्ञायत एतन्नियोगेन ॥९॥ |
Jain Edustan
For Private
Personal Use Only
Www.jainelibrary.org