SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश टीकाद्वयसमेतम्. प्रकरणम्. प्रतिपादितमैहभाविकपारभाविकलिंगान्याश्रित्याऽमेध्योत्करस्याप्युच्चारनिकरकल्पस्यापि । प्रवचनोदिताशेषगुणशून्यस्येति यावत् । यत उक्तमणंतसो दवलिंगाई ॥६॥ उ० उक्तार्थे तंत्रांतरसंवादमप्याह । मिथ्येत्यादि हिर्यस्मादपरैरपि तंत्रांतरीयैरप्यशुभभावस्य पुंस इदं केवलं बाह्यलिंग मिथ्याचारस्य फलं गीतं । मिथ्याचारस्वरूपं चेदं "बायेंद्रियाणि संयम्य य आस्ते मनसा स्मरन् । इंद्रियार्थान् विमूढात्मा मिथ्याचारः स उच्यत" इति । सूत्रेऽपि स्वकीयागमेप्येतद्वाह्यलिंगमविकलं परिपूर्णममेध्योत्करस्याप्युच्चारनिकरकल्पस्याप्युक्तमनंतशो द्रव्यलिंगग्रहणश्रवणात् ॥ ६॥ मध्यमबुद्धिर्विचारयति वृत्तमित्युक्तं । तत्र किं तदित्याह ॥ - वृत्तं चारित्रं खल्वसदारंभविनिवृत्तिमत्तच्च ॥ सदनुष्ठानं प्रोक्तं कार्य हेतूपचारेण ॥७॥ य. वृत्तंवर्तनं, विधिप्रतिषेधरूपं । तच्च चारित्रमेव । खलुशब्दस्यावधारणार्थत्त्वात्तच्चेह सदनुष्ठानं प्रोक्तं । तत्कीदृशमसदारंभविनिवृत्तिमत् असदारंभोऽशोभनारंभः प्राणातिपाताद्याश्रवपंचकरूपस्ततोनिवृत्तिमद्धिंसादिनिवृत्तिरूपमहिंसाद्यात्मकं ननु कथं सदनुष्ठानं चारित्रमभिधीयते । यतश्चारित्रमांतरपरिणामरूपं । सदनुष्ठानं तु बाह्यसक्रियारूपं । तदनयोः स्वरूपभेदः परिस्फुट एवास्तीत्याशंक्याह । कार्ये हेतूपचारेण कार्ये सदनुष्ठानरूपे हेतूपचारेण भावोपचरणात्तत्पूर्वकत्वात्सक्रियायाः । यच्चांतरपरिणामविकलं तत् सदनुष्ठानमेव न भवतीतिभावः ॥७॥ उ. वृत्तमाश्रित्याह । वृत्तमित्यादि। वृत्तं विधिप्रतिषेधरूपं वर्त्तनं चारित्रमेव खलुरवधारणार्थः तच्चेहामंदारंभाश्रवरूपाद्वि Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy