________________
य० बाह्यग्रंथत्यागाद्धनधान्यस्वजनवस्त्रादित्यागान्न चारु न शोभनं बाह्यलिंगं ननु निश्चितमेतदत्र लोके । तद्बाह्यलिं-12 गमितरस्यापि मनुष्यतिर्यक्प्रभृतेः संभवति । एनमेवार्थ प्रतिवस्तूपमया दर्शयति । कंचुकमात्रत्यागादुपरिवर्तित्वङ्मात्रपरित्यागान्नहि नच भुजगः सरीसृपः कथंचिन्निविषो भवति ॥५॥ | उ० त्यागलक्षणत्वादिदं शोभनं भविष्यतीत्याशंक्याह बाह्येत्यादि । बाह्यग्रंथस्य धनधान्यादेस्त्यागान्न चारु शोभनं बाह्यलिंगं गुणशून्यं ननु निश्चितमत्र लोके । तद्बाह्यग्रंथाभावलक्षणमितरस्य तिर्यगादेरपि संभवति । एतदेव प्रतिवस्तूपमया द्रढयति । कंचुकमात्रस्योपरिवर्तित्वङ्मात्रस्य त्यागान्नहि नैव भुजगः सर्पो निर्विषो भवति ॥५॥
प्रस्तुतमेवार्थ तंत्रांतरसंवादेनाह ॥ मिथ्याचारफलमिदं ह्यपरैरपि गीतमशुभभावस्य ॥ सूत्रेऽप्यविकलमेतत्प्रोक्तममेध्योत्करस्यापि ॥६॥ __ य० मिथ्या अलीको विशिष्टभावशून्य आचारो मिथ्याचारस्तस्य फलं कार्यमिदं बाह्यलिंगं केवलमेव हिर्यस्मादपरैरपि तंत्रांतरीयैर्गीतं कथितमशुभभावस्यान्तरशुभभावरहितस्य पुंसोमिथ्याचारस्वरूपं चेदं । “बाडेंद्रियाणि संयम्य य आस्ते मनसा स्मरन् । इंद्रियार्थ विमूढात्मा मिथ्याचारः स उच्यते ॥१॥" जन्मांतरोपार्जिताकुशलकर्मविपाक एवष यद्रोगोपभोगादिरहितेन प्रेक्षावत्पुरुषपरिनिंदनीयं क्लिष्टं जीविकाप्राय तथाविधवाह्यलिंगधारणमिति । तंत्रांतरप्रसिद्धमिममर्थमंगीकृत्यापरैरपीत्युक्तं । न केवलं तंत्रांतरेषु । सूत्रेऽप्यागमेऽपि स्वकीयेऽविकलं परिपूर्णमेतद्बाह्यलिंगं स्वकीयमेव प्रोक्तं
Jain Education international
For Private
Personal Use Only
www.jainelibrary.org