SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ श्रीषो. १८ Jain Education । चरमाद्यायां सूक्ष्मा अतिचाराः प्रायशोऽतिविरलाश्च । आद्यत्रये त्वमी स्युः स्थूलाश्च तथा घनाश्चैव ॥ ११ ॥ श्रुतमयमात्रापोहा चिन्तामयभावनामये भवतः । ज्ञाने परे यथार्ह गुरुभक्तिविधानसलिङ्गे ॥ १२ ॥ उपयोऽमृतकल्पं पुंसां सज्ज्ञानमेवमाख्यातम् । विधियत्नवत्तु गुरुभिर्विषयतृडपहारि नियमेन ॥ १३॥ शृण्वन्नपि सिद्धान्तं विषयपिपासातिरेकतः पापः । प्राप्नोति न संवेगं तदापि यः सोऽचिकित्स्य इति ॥ १४ ॥ नैवंविधस्य शस्तं मण्डल्युपवेशनप्रदानमपि । कुर्वन्नेतद्गुरुरपि तदधिकदोषोऽवगन्तव्यः ॥ १५ ॥ यः शृण्वन्संवेगं गच्छति तस्याद्यमिह मतं ज्ञानम् । गुरुभक्त्यादिविधानात्कारणमेतद् द्वयस्येष्टम् ॥ १६ ॥ १० ॥ शुश्रूषा चेहाद्यं लिङ्गं खलु वर्णयन्ति विद्वांसः । तदभावेऽपि श्रावणमसिरावनिकूप खननसमम् ॥ १ ॥ शुश्रूषापि द्विविधा परमेतरभेदतो बुधैरुक्ता । परमा क्षयोपशमतः परमाच्छ्रवणादिसिद्धिफला ॥ २ ॥ यूनो वैदग्ध्यवतः कान्तायुक्तस्य कामिनोऽपि दृढम् । किन्नरगेयश्रवणादधिको धर्मश्रुतौ रागः ॥ ३ ॥ गुरुभक्तिः परमास्यां विधौ प्रयत्नस्तथाऽऽदृतिः करणे । सन्थाप्तिः श्रवणं तत्त्वाभिनिवेशपरमफलम् ॥ ४ ॥ विपरीतात्वितरा स्यात्प्रायोऽनर्थाय देहिनां सा तु । या सुप्तनृपकथानक शुश्रूषावत्स्थिता लोके ॥ ५ ॥ ऊहादिरहितमाद्यं तद्युक्तं मध्यमं भवेज्ज्ञानम् । चरमं हितकरणफलं विपर्य्ययो मोहतोऽन्य इति ॥ ६ ॥ १ धृतिरिति कचित्पुस्तके पाठान्तरम् । For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy