SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Jain Education I नानविलेपनसुसुगन्धिपुष्पधूपादिभिः शुभैः कान्तम् । विभवानुसारतो यत्काले नियतं विधानेन ॥ १॥ अनुपकृतपरहितरतः शिवदस्त्रिदशेशपूजितो भगवान् । पूज्यो हितकामानामितिभक्त्या पूजनं पूजा ॥ २ ॥ पञ्चोपचारयुक्ता काचिचाष्टोपचारयुक्ता स्यात् । ऋद्धिविशेषादन्या प्रोक्ता सर्वोपचारेति ॥ ३ ॥ न्यायार्जितेन परिशोधितेन वित्तेन निरवशेषेयम् । कर्तव्या बुद्धिमता प्रयुक्तसत्सिद्धियोगेन ॥ ४ ॥ शुचिनात्मसंयमपरं सितशुभवस्त्रेण वचनसारेण । आशंसारहितेन च तथा तथा भाववृद्ध्योच्चैः ॥ ५ ॥ पिण्ड क्रियागुणगतैर्गम्भीरैर्विविधवर्णसंयुक्तैः । आशयविशुद्धिजनकैः संवेगपरायणैः पुण्यैः ॥ ६ ॥ पापनिवेदनगर्भैः प्रणिधान पुरस्सरैर्विचित्राथैः । अस्खलितादिगुणयुतैः स्तोत्रैश्च महामतिग्रथितैः ॥ ७ ॥ शुभभावार्थ पूजा स्तोत्रेभ्यः स च परः शुभो भवति । सद्भूतगुणोत्कीर्त्तनसंवेगात्समरसापत्त्या ॥ ८ ॥ कायादियोगसारा त्रिविधा तच्छुद्धयुपात्तवित्तेन । या तदतिचाररहिता सा परमान्ये तु समयविदः ॥ ९ ॥ विघ्नोपशमन्याद्या गीताभ्युदयप्रसाधनी चान्या । निर्धाणसाधनीति च फलदा तु यथार्थसंज्ञाभिः ॥ १० ॥ प्रवरं पुष्पादि सदा चाद्यायां सेवते तु तद्दाता । आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम् ॥ ११ ॥ त्रैलोक्य सुन्दरं यन्मनसापादयति तत्तु चरमायाम् । अखिलगुणाधिक सद्योगसारसनायागपरः ॥ १२ ॥ artist arrest न चोपकारो जिनस्य कश्चिदपि । कृतकृत्यच स भगवान् व्यर्था पूजेति मुग्धमतिः ॥ १३ ॥ For Private & Personal Use Only Clineibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy