SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ ॥ श्रीमद्धरिभद्रसूरिकृतं मूलषोडशकम् ॥ प्रणिपत्य जिनं वीरं सद्धर्मपरीक्षकादिभावानाम् । लिङ्गादि भेदतः खलु वक्ष्ये किञ्चित्समासेन ॥१॥ बालः पश्यति लिङ्गं मध्यमवुद्धिर्विचारयति वृत्तम् । आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन ॥२॥ बालो बसदारम्भो मध्यमबुद्धिस्तु मध्यमाचारः । ज्ञेय इह तत्त्वमार्गे बुधस्तु मार्गानुसारी यः॥३॥ बाह्य लिङ्गमसारं तत्प्रतिवद्धा न धर्मनिष्पत्तिः । धारयति कार्यवशतो यस्माच विडम्बकोऽप्येतत् ॥४॥ बाह्यग्रन्थत्यागान्न चारु नत्त्वत्र तदितरस्यापि । कञ्चकमात्रत्यागान्न हि भुजगो निर्विषो भवति ॥५॥ मिथ्याचारफलमिदं ह्यपरैरपि गीतमशुभभावस्य । सूत्रेऽप्यविकलमेतत्प्रोक्तममेध्योत्करस्यापि ॥ ६॥ वृत्तं चारित्रं खल्वसदारम्भविनिवृत्तिमत्तच्च । सदनुष्ठानं प्रोक्तं कार्य हेतूपचारेण ॥७॥ परिशुद्धमिदं नियमादान्तरपरिणामतः सुपरिशुद्धात्। अन्यदतोऽन्यस्मादपि बुधविज्ञेयं त्वचारुतया ॥८॥ गुरुदोषारम्भितया तेष्वकरणयत्नतो निपुणधीभिः। सन्निन्दादेश्च तथा ज्ञायत एतन्नियोगेन ॥९॥ आगमतत्त्वं ज्ञेयं तद्दष्टेष्टाविरुद्धवाक्यतया । उत्सर्गादिसमन्वितमलमैदम्पर्यशुद्धं च ॥१०॥ आत्मास्ति स परिणामी बद्धः सत्कर्मणा विचित्रेण । मुक्तश्च तद्वियोगाद्धिसाहिंसादि तद्धेतुः ॥ ११ ॥ परलोकविधौ मानं वचनं तदतीन्द्रियार्थदृग्व्यक्तम् । सर्वमिदमनादि स्यादैदम्पर्य्यस्य शुद्धिरिति ॥१२॥ श्रीषो. १७ Jain Education a l For Private Personal Use Only SONainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy