SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ मन्दमतीनां विस्तृतावगाहनाक्षमधियां हितार्थ तु हितायैव च पुनः आत्मनोऽनुस्मरणाय कीदृशा भावा आदित आरभ्य | भवविरहो मोक्षस्तस्य सिद्धिर्निष्पत्तिः फलं येषां ते तथा ॥ १६ ॥ इति षोडशं षोडशकम् ॥ इदानीं ग्रन्थकारो गर्भार्थपरिज्ञानाय बहुश्रुतभक्तिमुपदर्शयन् स्ववचनप्रार्थनामाह ॥ धर्मश्रवणे यत्नः सततं कार्यो बहुश्रुतसमीपे । हितकाङ्क्षिभिर्नृसिंहैर्वचनं ननु हारिभद्रमिदम् ॥१७॥ य० दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्म्मः श्रुतचारित्ररूपस्तस्य श्रवणमाकर्णनमर्थतस्तस्मिन् धर्म्मश्रवणे यत्नः प्रयत्नः आदरः सततमनवरतं कार्यः कर्त्तव्यो बहुश्रुतसमीपे बहुश्रुतसन्निधाने हितकाङ्क्षिभिर्हिताभिलाषिभिर्नृसिंहैः पुरुषसिंहैः पुरुषोत्तमैरितियावत् । वचनं प्रार्थनारूपं नन्वितिवितर्के एवं वितर्कयत यूयं हरिभद्रस्येदं हारिभद्रमिदमेवंविधं यदुत बहुश्रुतसमीपे धर्मश्रवणे यलो विधेयोऽथवा वचनमागमरूपं ननु निश्चितं हारि मनोहारि भद्रमिदं यतो वर्त्तते अतो वचनगतधर्म्मश्रवणे बहुश्रुतसमीपे एव यत्नः श्रेयान् । अबहुश्रुतेभ्यो धर्मश्रवणेऽपि विपरीतार्थोपपत्तेः प्रत्यवायसंभवादथवा हरिभद्रसूरेः स्तुतिं कुर्व्वाणोऽपर एव कश्चिदिदमाह । वचनं ननु हारिभद्रमिदम् । हरिभद्रसूरेरिदं धर्म्मगतं वचनं प्रकरणाश्रयं तस्माद्धर्म्मश्रवणे बहुश्रुतसमीप एव यलो विधेयोऽबहुश्रुतेभ्यो हरिभद्राचार्यवचनानुपलम्भादेवं वचनमाहात्म्यद्वारेण संस्तौति ॥ कृत्वा विवरणमेतत्पुण्यं यदवापि तेन भव्यजनः । अध्यास्तां पोडशकलाशशिमण्डलभास्वरं स्थानम् ॥ १॥ ॥ १७ ॥ इति षोडशक विवरणं समाप्तम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy