________________
८
-
बोधाम्भःश्रोतसः सिराकल्पा श्रोतुमिच्छा शुश्रूषा तत्त्वविषयैव । तत्त्वशुश्रूषानिवन्धनं श्रवणमाकर्णनं तत्त्वविषयमेव ।। बोधोऽवगमः परिच्छेदो विवक्षितार्थस्य श्रवणनिबन्धनस्तत्त्वविषय एव मीमांसा सद्विचाररूपा बोधानन्तरभाविनी तत्त्वविषयैव । श्रवणं च बोधश्च मीमांसा च श्रवणबोधमीमांसाः।परिशुद्धा सर्वतो भावविशुद्धा प्रतिपत्तिमर्मीमांसोत्तरकालभाविनी निश्चयाकारा परिच्छित्तिरिदमित्थमेवेति तत्त्वविषयैव । प्रवर्तनं प्रवृत्तिरनुष्ठानरूपा परिशुद्धप्रतिपत्त्यनन्तरभाविनी तत्त्वविषयैव, प्रवृत्तिशब्दो द्विरावर्त्यते तेनायमर्थो भवति । तत्त्वे प्रवृत्तिरष्टभिरङ्गैनिवृत्ता अष्टाङ्गिकी एभिरद्वेषादिभिरटभिरङ्गैस्तत्त्वप्रवृत्तिः संपद्यते तेनागमान्तरे मूलागमैकदेशभूते न द्वेषः कार्य इति ॥१४॥ । उ० उक्ताद्वेषस्यैव तत्त्वज्ञानानुकूलतामभिधातुमाह । अद्वेष इत्यादि । अद्वेषः पक्षपातकृताप्रीतिपरिहारस्तत्त्वविषयः जिज्ञासा तत्पूर्विका तत्त्वज्ञानेच्छा शुश्रूषा बोधश्रोतःसिराकल्पा तत्त्वजिज्ञासापूविका श्रवणमाकर्णनं बोधोऽवगमः मीमांसा तत्त्वविचाररूपा ततःश्रवणादिपदानां द्वन्द्वः परिशुद्धा सर्वतो भावविशुद्धा प्रतिपत्तिर्मीमांसोत्तरकालभाविनीदमित्थमेवेति निश्चयाकारा परिच्छित्तिः तत्त्वविषयैव प्रवृत्तिः परिशुद्धप्रतिपत्त्यनन्तरभाविनी तत्त्वविषया क्रिया प्रवृत्तिशब्दो द्विरावर्त्यते लातेनायमर्थः तत्त्वे प्रवृत्तिरष्टाङ्गिकी अष्टभिरद्वेषादिभिरङ्गनिर्वृत्ता तेन मूलागमैकदेशागमे न द्वेषः कार्य इति ॥ १४ ॥
एवं सद्धर्मपरीक्षकादीन् भावान् प्रतिपाद्य समस्तप्रकरणार्थोपसंहारद्वारेण सदुपदेशदानायाह ॥ गर्भार्थं खल्वेषां भावानां यत्नतः समालोच्य । पुंसा प्रवर्तितव्यं कुशले न्यायः सतामेषः ॥१५॥ य. गर्भार्थ हृदयगतार्थ भावार्थमितियावत् । खलुशब्दोऽवधारणे एषां प्राक्प्रक्रान्तानां भावानां पदार्थानां यत्नतः
Jain Education.
in
a
l
For Private
Personal Use Only
aineitary.org