________________
उ० एवं परपक्षं निरस्य स्वोक्तत्रयसमर्थनायाह। तस्मादित्यादि । तस्माद्यथोक्तमेतत्रितयं जीवकर्मतथाभव्यत्त्वरूपं निय-15 मेन नियोगेन धीधनबुद्धिधनैः पुम्भिः पुरुषः भवभवविगमनिबन्धनं संसारमोक्षकारणमालोच्यं सम्यग्भावनीयं शान्तचेतोभिररक्तद्विष्टचित्तैः ॥ ११॥
ननु चागमप्रामाण्यमवलम्बमानैः पुरुषाद्वैतं ज्ञानाद्वैतं च यदेष्यते तदा को दोष इत्याह ॥ ऐदम्पर्य शुद्धयति यत्रासावागमः सुपरिशुद्धः। तदभावे तद्देशः कश्चित्स्यादन्यथाग्रहणात् ॥ १२॥ __ य० ऐदम्पर्य तात्पर्य पूर्वोक्तं शुद्ध्यति स्फुटीभवति यत्रागमे असावागमः सुपरिशुद्धः प्रमाणभूतस्तदभावे ऐदम्पर्यशुद्ध्य
भावे तद्देशः परिशुद्धागमैकदेशः कश्चिदन्य आगमः स्यान्नतु मूलागम एव अन्यथाग्रहणान्मूलागमैकदेशस्य सतो विषय४ स्यान्यथाप्रतिपत्तेर्यतः समतामवलम्बमानास्तेऽपि तथेच्छन्ति ॥ १२ ॥
उ० ननु चागमप्रामाण्यमबलम्बमानैः पुरुषाद्वैतं ज्ञानाद्वैतं वा यदेष्यते तदा को दोष आगमानुसारेणैव युक्तिप्रवर्तनस्य न्याय्यत्वादत आह । ऐदम्पर्यमित्यादि । ऐदम्पयं प्रकृतार्थोपपत्तितात्पर्य यत्रागमे शुद्ध्यति निर्वहति असावागमः सुपरिशुद्धः प्रमाणभूतस्तात्पर्य्यार्थपर्यन्तं प्रमाणशब्दव्यापारात्तदभावे ऐदम्पर्यशुद्ध्यभावे तद्देशः परिशुद्धागमैकदेशार्थगर्भः कश्चिदन्य आगमः स्यान्नतु मूलागम एव अन्यथाग्रहणान्मूलागमैकवाक्यस्य कस्यचिद्वचनस्य तदेकवाक्यतानापन्नवाक्यान्तरमिश्रितत्त्वेन वैपरीत्येन ग्रहणादत एवैदम्पार्थान्वेषिणः समतामवलम्बमाना अन्यतीर्थिका अपि तदर्थविरुवाक्यार्थाननुप्रवेशेन यावदुपपन्नमिच्छन्ति नतु मिथ्र्यकान्तेन ॥ १२ ॥
lain Edat
audional
For Private
Personal Use Only
Din.jainelibrary.org