SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ सत्यभ्युपगम्यमाने सति मुक्तिवादिनामात्मसत्तायामविप्रतिपत्तेस्तस्मिन्नित्यत्त्वक्षणिकत्त्वादावेव विप्रतिपत्तेस्तन्निरासायेदं विशेषणं तैस्तैर्ध्वनिभिः शब्दैर्वाच्यमभिधेयमेतत्यागुक्तमविद्यारहिताऽवस्थावैशेषिकगुणरहितपुरुषपशुत्त्वविगमादि । अथवा तेस्तैर्ध्वनिभिर्वाच्यं सम्यग्दर्शनज्ञानसदनुष्ठानादिप्रकरणोक्तमेतदखिलं स्यात् सम्भवेत् । अर्थान्तरे चात्मभिन्ने च तत्त्वे पदार्थेऽविद्यादावविद्यादृष्टसंस्कारादिपदवाच्ये वस्तुसत्येव परमार्थतो विद्यमान एव नतु सांवृतसत्त्वेनाभ्युपगम्यमाने तस्य कल्पितरूपत्त्वेन तत्त्वतोऽसत्त्वात् ॥५॥ | किमात्मनि परिणामिन्यविद्यादौ च वस्तुसति सर्वमिदं स्यादाहोस्विदन्यदपि हेत्वन्तरं मुक्तामुक्तावस्थयोर्भेदक कारणभूतमस्तीत्याशङ्कायामिदमाह ॥ । तद्योगयोग्यतायां चित्रायां चैव नान्यथा नियमात् । परिभावनीयमेतद्विद्वद्भिस्तत्वदृष्टयोच्चैः॥ ६॥ य० तेनार्थान्तरभूतेन तत्त्वेनाविद्यादिना योगः सम्बन्धः आत्मनः कर्मबन्ध इत्यर्थस्तस्मिन्योग्यता जीवस्य कर्मपुद्गलग्राहकस्वभावत्त्वमनादिपारिणामिकभव्यभावलक्षणम् सहजमलरूपं मुक्तावस्थायां निवर्ति योग्यताशब्देनोच्यते तस्यां तद्योगयोग्यतायां सत्यां चित्रायां चैव नानाप्रकारायां चैव सकलजीवापेक्षया कालादिभेदेनात्मनां बीजसिद्धिभावात् । नान्यथा, एकस्वभावायां योग्यतायां फलभेदासिद्धेः । दृश्यते च द्रव्यक्षेत्रकालभावप्रक्रमेण तीर्थकरातीर्थकरप्रत्येकबुद्ध-12 श्रीषो. १६ । स्वयंबुद्धादिरूपः फलभेदस्तस्माच्चित्ररूपायामेव योग्यतायां स युज्यते। नियमान्नियमेन परिभावनीयं सर्वप्रकाश्चिन्तनी Jain Education. i m al For Private Personal Use Only Koliainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy