SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ श्रीषोडशप्रकरणम्. ॥ ९० ॥ उ० अस्यां वस्तुसत्यामवस्थायां तन्त्रातरोक्तं सम्भवित्त्वेन दर्शयन्नाह । एवमित्यादि । एवमुक्तनीत्या पशुत्वमज्ञत्त्वं तस्य ४ टीकाद्वयविगमोऽपुनर्भावेन नाशः दुःखानामन्तो भूतानां पृथिव्यादीनां विगम आत्यन्तिको वियोग इत्यादि । अन्यदपि उक्तावशिष्टमपि तन्त्रसिद्धं तत्तत्समयप्रसिद्धं सर्व निरवशेषमवस्थान्तरे दोषरहितशुद्धगुणावस्थारूपेऽत्रैव परतत्त्वस्वरूपे युज्यते समेतम्. नान्यत्र ॥ ४ ॥ एतच्च सर्व्वमपि तन्त्रान्तरसिद्धं यथाविधे वस्तुतत्त्वे सति युज्यते तथाविधमुपदर्शयितुमाह ॥ परिणामिन्यात्मनि सति तत्तवनिवाच्यमेतदखिलं स्यात् । अर्थान्तरे च तत्त्वे विद्यादौ वस्तुसत्येव ॥ ५ ॥ य० अन्यथा चान्यथा च भवतोप्यन्वयित्त्वं परिणामः स विद्यते यस्य स परिणामी तस्मिन्परिणामिन्यात्मनि जीवे सति विद्यमाने मुक्तिवादिनामात्मसत्तायां न विप्रतिपत्तिरस्ति । चैतन्यस्वरूपस्य परलोकान्वयिनः पुरुषस्य सर्वैरप्यभि| मतत्त्वान्नित्यत्त्वक्षणिकत्त्वादिविषयैव विप्रतिपत्तिरिति तन्निरासद्वारेण परिणामिनीत्युक्तं तैस्तैर्ध्वनिभिः शब्दैः पूर्वोक्तैर्वाच्यमभिधेयमेतत्प्रागुक्तमविद्यारहितावस्था वैशेषिकगुणरहितपुरुषपशुत्त्वविगमादि । सर्वैर्वा ध्वनिभिर्यद्वाच्यं सम्यग्दर्शनज्ञानसदनुष्ठानादिप्रकरणोक्तमखिलं स्याद्भवेत्सम्भवेत् अर्थान्तरे च वस्त्वन्तरे च भिन्ने तत्त्वे पदार्थे अविद्यादावविद्याहष्टसंस्कारादौ । वस्तुसत्येव परमार्थसत्येव न संवृत्तिसति तस्य परमार्थतः कल्पितरूपत्वेनासत्त्वात् ॥ ५ ॥ उ० एतच्च सर्वमपि तन्त्रान्तरसिद्धं यथाविधवस्तुतत्त्वाभ्युपगमे युज्यते तादृशं वस्तु परीक्षयन्नाह । परिणामिनीत्यादि । केनचिद्रूपेणान्वयित्त्वे सति केनचिद्रूपेण व्यतिरेकित्त्वं परिणामः स विद्यते यस्य परिणामी तस्मिन्नात्मनि जीवे Jain Education International For Private & Personal Use Only ॥ ९० ॥ www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy