SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ उ० सुस्वप्नेत्यादि । सुष्टु शोभनाः श्वेतसुरभिपुष्पवस्त्रातपत्रचामरादयो ये स्वप्नाः स्वापज्ञेयास्तदर्शनपरं तद्दर्शनप्रवृत्तं समुल्लसन् गुणगणोघो गुणनिकरप्रवाहो यस्मिंस्तत्तथात्यन्तमतिशयेन कल्पतरोर्यद्वीजं तत्कल्पं तत्तुल्यं शुभ उदयो यस्य तत्तथा योगिनां चित्तं भवति ॥ १३ ॥ । कस्य पुनरेवंविधं विशेषेण योगिनश्चित्तं भवतीत्याह ॥ एवंविधमिह चित्तं भवति प्रायः प्रवृत्तचक्रस्य । ध्यानमपि शस्तमस्य त्वधिकृतमित्याहुराचार्याः॥१४॥ ___ य० एवंविधमेवस्वरूपमिह प्रक्रमे चित्तं मनो भवति सम्भवति प्रायो बाहुल्येन प्रवृत्तचक्रस्य प्रवृत्तरात्रिन्दिवानुष्ठानसमूहस्य योगिनो ध्यानमपि पूर्वोक्तस्वरूपं शस्तं प्रशस्तमस्य त्वस्यैव अधिकृतं प्रस्तुतमित्याहुराचार्याः सूरयो, ब्रुवते॥१४॥ उ० कस्य पुनर्विशेषेणेदृग् चित्तं स्यादित्याह । एवंविधमित्यादि । एवंविधमेवंस्वरूपमिह प्रक्रमे चित्तं मनो भवति प्रायो बाहुल्येन प्रवृत्तचक्रस्य प्रवृत्तरात्रिन्दिवानुष्ठानसमूहस्य योगिनः शस्तं प्रशस्तं ध्यानमपि प्रागुक्तमस्य त्वस्यैवाधिकृतं सम्पन्नाधिकारमित्याहुराचार्या योगाचार्याः ॥ १४ ॥ कथं पुनस्तड्यानं देशाद्यपेक्षया भवतीत्याह ॥ | शुद्धे विविक्तदेशे सम्यक्संयमितकाययोगस्य। कायोत्सर्गेण दृढं यद्वा पर्यङ्कबन्धेन ॥ १५॥ l य० शुद्धे शुचौ विविक्तदेशे जनाकीर्णादिरहिते सम्यगवैपरीत्येन संयमितकाययोगस्य नियमितसर्चकायचेष्टस्य कायोत्सर्गेण ऊर्द्धस्थानरूपेण दृढमत्यर्थ, यद्वा पर्यङ्कबन्धेनासनविशेषरूपेण दृढमत्यर्थं, यद्वापर्यङ्कबन्धेनासनविशेषरूपेण ॥१५॥ Jain Eden For Private Personal Use Only M ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy