SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ ८२ ॥ उ० कथं पुनस्तद्ध्यानं देशाद्यपेक्षया भवतीत्याह । शुद्ध इत्यादि । शुद्धे शुचौ विविक्ते जनानाकीर्णे देशे सम्यगवैपरीत्येन संयमित काययोगस्य नियमितसर्वकायचेष्टस्य कायोत्सर्गेणोर्द्धस्थानरूपेण ॥ १५ ॥ साध्वागमानुसाराच्चेतो विन्यस्य भगवति विशुद्धम् । स्पर्शावेधात्तत्सिद्धयोगि संस्मरणयोगेन ॥ १६ ॥ १४ ० साधु यथाभवत्येवमागमानुसारात्सिद्धान्तानुसारेण चेतश्चित्तं विन्यस्य निक्षिप्य भगवति जिने विशुद्धं विशुद्धिमतू स्पर्शस्तत्त्वज्ञानं तस्यावेधात्संस्कारात्तस्मिन्ध्याने सिद्धाः प्रतिष्ठिता लब्धात्मलाभा ये योगिनस्तेषां संस्मरणयोगः स्मरणव्यापारस्तेन । यो हि यत्र कर्म्मणि सिद्धस्तदनुस्मरणं तत्रेष्टफलसिद्धये भवति ॥ १६ ॥ १४ उ० साध्वित्यादि । साधु यथाभवत्येवमागमानुसारात् सिद्धान्तं पुरस्कृत्य चेतश्चित्तं विन्यस्य संस्थाप्य भगवति जिने विशुद्धं निर्दोषं स्पर्शस्य तत्त्वज्ञानस्य वेधात् दृढतरसंस्कारात्तस्मिन् ध्याने सिद्धा लब्धात्मलाभा ये योगिनस्तेषां संस्मरणं योगेन सामस्त्येन स्मरणव्यापारेण तज्यानमिष्टफलदं भवति यो हि यत्र कर्मणि सिद्धस्तदनुस्मरणस्य तत्रेष्टफलदत्त्वात् ॥१६॥१४ ॥ इति चतुर्दश षोडशकम् ॥ किं पुनस्तत्र ध्याने ध्येयमित्याह ॥ | सर्वजगद्धितमनुपममतिशयसन्दोहमृद्धिसंयुक्तम् । ध्येयं जिनेन्द्ररूपं सदसि गदत्तत्परं चैव ॥ १ ॥ य० सर्वजगत्प्राणिलोकोऽभिधीयते तस्मै हितं हितकारित्वात् हितकारित्वं च सदुपदेशनात् । न विद्यते उपमा शरी Jain Education International For Private & Personal Use Only टीकाद्वय समेतम् ॥ ८२ ॥ www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy