SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ उ० भ्रान्तावित्यादि । भ्रान्ती चित्तदोषे सति विभ्रमस्य मनोवैकल्यस्य योगात्सम्बन्धान्नहि नैव संस्कारो वासनाविशेषः कृतेतरादिगतः इदं मया कृतमितरदकृतमादिशब्दादिदं मयोच्चरितमिदमनुच्चरितमेतद्गत एतद्विषयः विपरीतसंस्कारेण सत्यसंस्कारनाशात् । तदभावे कृतेतरादिसंस्काराभावे तस्य प्रस्तुतस्य योगस्य करणं प्रक्रान्तस्य योगस्य विरोध्यनिष्ट-19 फलमिष्टफलरहितं कृतेतरादिसङ्कलनसहितक्रियाया एवेष्टफलहेतुत्त्वात् । अथ यत्रोपेक्षयैव कृताकृतसंस्काराभावो नतु | भ्रान्त्या तत्र कोऽयं दोष इति चेन्न भ्रान्तेरुपेक्षाया अप्युपलक्षणत्वात् ॥ ८॥ अन्यमुदि तत्र रागात्तदनादरताऽर्थतो महापाया। सर्वानर्थनिमित्तं मुद्विषयाङ्गारवृष्टयाभा ॥९॥ य. अनुष्ठीयमानादन्यत्र मुत्प्रमोदस्तस्यां सत्यां चित्तदोषरूपायां तत्रान्यस्मिन्वा रागादभिलाषातिरेकात्तदनादरता| अनुष्ठीयमानाऽनादरभावोऽर्थतः सामर्थ्यात् । महापाया महानपायो यस्याः सकाशात्सा तथा सर्वानर्थनिमित्तं सर्वेषामनर्थानां हेतुस्तदनादरताभिसम्बध्यते मुद्विषयाङ्गारवृष्ट्याभा मुदो हर्षस्य विषयो यस्तस्मिन्नङ्गारवृष्ट्याभाऽङ्गारवृष्टिप्रतिच्छायाङ्गारवृष्टिसदृशी प्रमोदविषयार्थोपघातकारिणीत्यर्थः । इयं चान्यमुत्सुन्दरेष्वपि शास्त्रोक्तेषु चैत्यवन्दनास्वाध्यायकरणा-18 दिषु श्रुतानुरागाच्चैत्यवन्दनाद्यनाद्रियमाणस्य तत्करणवेलायामपि तदुपयोगाभावेनेतरत्रासक्तचित्तवृत्तेः सदोषा । न हि शास्त्रोक्तयोरनुष्ठानयोरयं विशेषः समस्ति यदुतैकमादरविषयोऽन्यदनादरविषय इति ॥९॥ ___ उ० अन्यमुदीत्यादि । अनुष्ठीयमानादन्यत्र मुत्प्रमोदस्तस्यां सत्यां तत्रान्यस्मिन् रागादभिलाषातिरेकात्तदनादरता-18 नुष्ठीयमानानाद्रियमाणताऽर्थतः सामर्थ्यात्तक्रियाकालेऽन्यरागस्य तद्रागाक्षेपकत्त्वात्सा च तदनादरता महापाया महाध Jain Education Monal For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy