________________
| मध्य मबुद्धिर्म्मध्यमविवेकसंपन्नो, विचारयति मीमांसते, वृत्तं वक्ष्यमाणस्वरूपं, प्राधान्येन समाश्रयति तत्रैवाभिलाषात् । आगमतत्त्वत्वागमपरमार्थ मैदं पर्यरूपं, बुधो विशिष्टविवेकसंपन्नः, परीक्षते समीचीनमवलोकयति । सर्व्वयलेन सर्व्वादरेण धर्माधर्मव्यवस्थाया आगमनिबंधनत्वात् । यत उक्तं । धर्म्माधर्म्मव्यवस्थायाः शास्त्रमेव नियामकं । तदुक्तासेवनाद्धर्म्मस्त्वधर्मस्तद्विपर्ययात् ॥ २ ॥
उ० सद्धर्मपरीक्षकस्य बालादिभेदत्रयव्यापारद्वारा ( स्वरूपं ) निरूपयन्नाह । बाल इत्यादि । वालो विवेकविकलो धर्मेच्छुरपि लिंगं बाह्यं वेषं पश्यति प्राधान्येन । मध्यमवुद्धिर्मध्यमविवेकसंपन्नो वृत्तमाचारं विचारयति, यद्ययमाचारवान् स्यात्तदा वंद्यः स्यादिति वितर्कारूढं करोति । बुधो विशिष्टविवेकसंपन्नस्तु सर्वयलेन सर्वादरेणागमतत्त्वं सिद्धांत परमार्थं परीक्षते पुरस्कृत्याद्रियते । बालादीनां बाह्यदृष्ट्यादौ च स्वरुचिभेद एव हेतुः ॥ २ ॥
इदानीं पूर्वोक्तानां बालादीनामेव लक्षणमाह ॥
बालो ह्यसदारंभो मध्यमबुद्धिस्तु मध्यमाचारः ॥ ज्ञेय इह तत्त्वमार्गे बुधस्तु मार्गानुसारी यः ॥ ३ ॥
य० वालो हि पूर्वोक्तः ॥ असन्नसुंदर आरंभोऽस्येत्य सदारं भोऽविद्यमानं वा यदागमे व्यवच्छिन्नं तदारभत इत्यसदारंभः न सदा न सर्वदा । स्वशक्तिकालाद्यपेक्ष आरंभोऽस्येति वा । मध्यमबुद्धिस्तु पूर्वोक्तो मध्यमाचार आगमैदंपर्यविकलत्वात् प्रावचनिककार्याsप्रवृत्तेः । ज्ञेय इह प्रक्रमे, तत्त्वमार्गे परमार्थमार्गे प्रवचनोन्नतिनिमित्ते बुधस्तूक्तलक्षण एव मार्गानुसारी ज्ञानादित्रयानुसारी । स्वपरयोस्तद्वृद्धिहेतुत्वेन यः स विज्ञेय इति ॥ ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org