SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश- टीकाद्वयसमेतम्. प्रकरणम्. प्रकरणमुपायः उपेयं तु तदर्थपरिज्ञानमुपायोपेयलक्षणश्च संबंधस्तर्कानुसारिणः प्रति । उक्तंच । शास्त्रं प्रयोजनं चेति |संबंधस्याश्रयावुभौ । तदुक्त्यांतर्गतस्तस्माद्भिन्नो नोक्तः प्रयोजनात् ॥१॥ ___ समयानुसारिणस्त्वंगीकृत्य गुरुपर्वक्रमलक्षणः । अभिधेयं तु सद्धर्मपरीक्षकादयो भावाः प्रकरणप्रतिपाद्याः। किमर्थं चेदं प्रयोजनादित्रयं प्रतिपाद्यते, शिष्यश्रवणप्रवृत्त्यर्थ । यथोक्तं प्रेक्षावतां प्रवृत्त्यर्थ फलादित्रितयं स्फुटं। मंगलं चैव शास्त्रादौ वाच्यमिष्टार्थसिद्धये इति ॥१॥ ॥श्रीमदुपाध्यायकृतटीकायुक्त श्रीषोडशकम् ॥ ॐ ऐंद्रश्रेणिनतं वीरं नत्वास्माभिर्विधीयते । व्याख्या षोडशकग्रंथे संक्षिप्तार्थावगाहिनी ॥१॥ तत्रादाविदमार्यासूत्रं प्रणिपत्येत्यादि । प्रणिपत्य नमस्कृत्य जिनं जितरागादिदोषं वीरं वर्द्धमानस्वामिनं सद्धर्मपरीक्षको बालादिभेदेन त्रिविधस्तदादयो ये भावास्तेषां लिंगादिभेदतः लिंगादिभेदमाश्रित्य किंचिदल्पं स्वरूपमितिशेषः । समासेन मितशब्देन वक्ष्येऽभिधास्यामि ॥१॥ सद्धर्मपरीक्षकस्य त्रिविधस्य व्यापारमुपदर्शयति । वालः पश्यति लिंगं मध्यमबुद्धिर्विचारयति वृत्तम् ॥ आगमतत्त्वं तु बुधः परीक्षते सर्वयत्नेन ॥२ य. बालो विशिष्टविवेकविकलो लिंगं वेषमाकारं बाह्यं पश्यति प्रधानेन । धार्थिनोऽपि तस्य तत्रैव भूयसा रुचिप्रवृत्तेः। ॥१॥ Jain Education international For Private Personal Use Only wwwzjainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy