SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ॥श्रीयशोभद्रसूरिकृतटीकायुक्तषोडशकम् ॥ प्रणिपत्य जिनं वीरं सद्धर्मपरीक्षकादिभावानाम्॥लिंगादि भेदतः खलु वक्ष्ये किंचित्समासेन ॥१॥ ॐ नमः सर्वज्ञाय । अमृतमिवामृतमनघं जगाद जगते हिताय यो वीरः। तस्मै मोहमहाविषविघातिने स्तानमः सततं ॥१॥ यस्याः संस्मृतिमात्राद् भवन्ति मतयः सुदृष्टपरमार्थाः॥ वाचश्च बोधविमलाः सा जयतु सरस्वती देवी ॥२॥ इह भवजलधिनिमग्नसत्त्वाभ्युज्जिहीर्षाभ्युद्यतेन स्वहितसंपादननिपुणेन गुरुलाघवचिन्तावता प्रश्नार्थव्याकरणसमर्थेन विदुषा ४ |सद्धर्मपरीक्षायां यत्नो विधेयः । सा च परीक्षकमंतरेण न संभवति, तदविनाभावित्वात् परीक्षायाः। सद्धर्मपरीक्षकादि भावप्रतिपादनार्थ चार्याषोडशकाधिकारप्रतिवद्धं प्रकरणमारेभे हरिभद्रसूरिस्तस्य चादावेव प्रयोजनाभिधेयसंबंधप्रतिपादनार्थमिदमार्यासूत्रं जगाद ॥ प्रणिपत्य नमस्कृत्य, जिनं जितरागद्वेषमोहं सर्वज्ञं, वीरं सदेवमनुष्यासुरलोके श्रमणो: भगवान्महावीर इत्यागमप्रसिद्धनामानमनेनेष्टदेवतास्तवद्वारेण मंगलमाह । सद्धर्मपरीक्षकस्त्रिविधो वक्ष्यमाणस्तदादयो ये भावास्तेषां किंचिदित्यस्य स्वल्पमात्राभिधायित्वाल्लेशं वक्ष्ये लिंगादिभेदतः खल्विति लिंगवृत्तादिविशेषप्रतिपादनद्वारेण यद्यप्यपरैरेव पूर्वाचायः सद्धर्मपरीक्षादयो भावाः स्फुटमेवाभिहितास्तथाप्यहं समासेनैवाभिधास्यामीति संक्षेपाभिधानं प्रयोजनं । स्वरूपतस्तुशिष्यबुद्धौ सद्धर्मपरीक्षकादिभावानामारोपणं, तच्च वचनरूपापन्नं प्रकरणमंतरेण न संभवतीति श्रीषो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy