SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ PRECARR RRRESTERS य० अष्ट च तानि पृथग्जनचित्तानि च । तेषां त्यागात्परिहारात् योगिकुलस्य चित्तं मनस्त द्योगेन तत्संबन्धि जिनरूपं परमात्मरूपं, ध्यातव्यं ध्येयं, योगविधौ योगविधानेऽन्यथा दोषोऽपराधः॥२॥ उ० कथं पुनर्जिनरूपं ध्यातव्यमित्याह । अष्टेत्यादि । अष्ट च तानि पृथग्जनचित्तान्ययोगिमनांसि तेषां त्यागात् योगिकुलस्य योगिपारंपर्य्यस्य चित्तं मनस्तद्योगेन तदभ्युपगमेन जिनरूपं परमात्मस्वरूपं ध्यातव्यं योगविधौ ध्यानाचारेऽन्यथा दोषोऽपराधो निरपेक्षवृत्ती मानसातिचारस्यापि भङ्गरूपत्वात् ॥२॥ तान्येव चाप्टौ चित्तान्याह ॥ खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः । युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ॥ ३॥ य० खेदः श्रान्तता क्रियास्वप्रवृत्तिहेतुः पथिपरिश्रान्तवत् , खेदाभावेऽप्युद्वेगः स्थानस्थितस्यैव उद्विग्नता, कुर्वाणोऽप्युद्विग्नः करोति न सुखं लभते, क्षेपः क्षिप्तचित्तता अन्तरान्तराऽन्यत्र न्यस्तचित्तवत् । उत्थानं चित्तस्याप्रशान्तवाहिता मनःप्रभृतीनामुद्रकान्मदावष्टब्धपुरुषवत् । भ्रान्तिरतस्मिँस्तनहरूपा शुक्तिकायां रजताध्यारोपवत् । अन्यमुद्अन्यहर्षः । रुगू रोगः । (इदं प्रतावदृष्टं) पीडा भङ्गो वा । आसंगोऽभिष्वङ्गः। खेदश्चोद्वेगश्च क्षेपश्चोत्थानं च भ्रान्तिश्चान्यमुच्च रुक्चासङ्गश्च तैर्युक्तानि हि संबद्धानि हि चित्तानि प्रस्तुतान्यष्ट प्रबन्धतः प्रवन्धेन वर्जयेत्सरिहरेन्मतिमान् बुद्धिमान् ॥ ३॥ उ. तान्येव त्याज्यान्यष्टौ चित्तान्याह । खेदे त्यादि । खेदः पथिपरिश्रान्तवत्पूर्वक्रियाप्रवृत्तिजनितमुत्तरक्रियाप्रवृत्तिप्रतिबन्धकं दुःखं । उद्वेगः कष्टसाध्यताज्ञानजनितमालस्यं यद्व शात्कायखेदाभावेऽपि स्थानस्थितस्यैव क्रियां कर्तुमनुत्साहो । lain Education U n a For Private Personal use only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy