SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ टीकाद्वय श्रीषोडश समेतम्. प्रकरणम्. ॥७७॥ आमूलमिदं योगमार्गस्येत्युक्तं तत्र कतिविधो योग इत्याह ।। सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः । जिनरूपध्यानं खल्वाधस्तत्तत्त्वगस्त्वपरः ॥१॥ य० सह आलम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्त्तत इति सालम्बनो निरालम्बनश्चालम्बनाद्विषयभावापत्तिरूपान्निष्क्रान्तो निरालम्बनो यो हि छद्मस्थेन ध्यायते न च स्वरूपेण दृश्यते तद्विषयो निरालम्बन इति यावत् । योगो ध्यानविशेषः परः प्रधानो द्विधा ज्ञेयो द्विविधो वेदितव्यः । जिनरूपस्य समवसरणस्थितस्य ध्यान चिन्तनं खलुशब्दो वाक्यालङ्कारे आद्यः प्रथमः सालम्बनो योगः। तस्यैव जिनस्य तत्त्वं केवलजीवप्रदेशसङ्घातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः तुरेवकारार्थः परोऽनालम्बनः मुक्तपरमात्मस्वरूपध्यानमित्यर्थः ॥१॥ उ. आमूलमिदं योगमार्गस्येत्युक्तं । तत्र कतिविधो योग इत्याह । सालम्बन इत्यादि । सहालम्बनेन चक्षुरादिज्ञानविपयेण प्रतिमादिना वर्तत इति सालम्बनो निरालम्बनश्चालम्बनाद्विषयभावापत्तिरूपान्निष्क्रान्तो यो हि च्छद्मस्थेन ध्यायते नच स्वरूपेण दृश्यते योगो ध्यानविशेषः परः प्रधानो द्विधा ज्ञेयः जिनरूपस्य समवसरणस्थस्य ध्यानं चिन्तनं खलुशब्दो वाक्यालङ्कारे आद्यः प्रथमो योगः सालम्बनः तस्यैव जिनस्य तत्त्वं केवलजीवप्रदेशसंघातरूपं केवल ज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः तुरेवकारार्थेऽपरो द्वितीयः शुद्धपरमात्मगुणध्यानं निरालम्बनमित्यर्थः॥१॥ कथं पुनः जिनरूपं ध्यातव्यमित्याह ॥ अष्टपृथग्जनचित्तत्यागाद्योगिकुलचित्तयोगेन । जिनरूपं ध्यातव्यं योगविधावन्यथा दोषः ॥२॥ ॥७७॥ Jain Education.bangal For Private Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy