SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ उ० गुरुविनयस्य किं मूलमित्याह । सिद्धान्तेत्यादि । सिद्धान्तकथा स्वसमयप्रवृत्तिः सत्सङ्गमश्च सत्पुरुषसङ्गश्च मृत्योः परिभावनं चैव सर्वदा सर्वकषत्त्वादिरूपेण दुष्कृतानां पापानां सुकृतानां च पुण्यानां यो विपाकोऽनुभवस्तदालोचनं तद्विचारणं हेतुफलभावद्वारेणाथानन्तरं मूलं कारणमस्यापि गुरुविनयस्य सर्वमेतत्समुदितं एतदर्थसिद्धेर्गुरुविनयमूलत्त्वात् ॥ १५॥ | अधुना गुरुविनयसहितस्य प्रतिपादितमूलस्यादेयतामुपदर्शयन्निदमाह ॥ एतस्मिन् खलु यत्नो विदुषा सम्यक् सदैव कर्त्तव्यः । आमूलमिदं परमं सर्वस्य हि योगमार्गस्य॥१६॥ | य० एतस्मिन् खलु एतस्मिन्नेव प्रागुक्त सिद्धान्तकथादौ यत्न आदरो, विदुषा विचक्षणेन, सम्यक्सङ्गतः सदैव सर्वकालमेव कर्तव्यो विधेयः आमूलमभिव्याप्त्या कारणमिदं सिद्धान्तकथादि परमं प्रधानं सर्वस्य हि योगमार्गस्य सकलस्य योगवर्त्मनो यतो वर्त्तते ॥ १६ ॥ १३ ॥ | उ० अस्यैव सर्वस्यादेयतामुपदर्शयन्नाह । एतस्मिन्नित्यादि । एतस्मिन् खल्वस्मिन्नेव प्रागुक्त सिद्धान्तकथादौ यत्न आदरो विदुषा सुधिया सम्यक् समीचीनः सदैव कर्त्तव्य आमूलमभिव्याप्त्या कारणमिदं सिद्धान्तकथादि परमं सर्वस्य हि यतो योगमार्गस्य ॥ १६ ॥१३॥ ॥ इति त्रयोदशं षोडशकम् ॥ Jam Education a For Private Personal use only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy