SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. 11 64 11 उ० केषां पुनरेताश्चतस्रः परिणमन्तीत्याह । एता इत्यादि । एताः प्रागुक्ताः खलु पुनः अभ्यासात्पुनः पुनरावृत्तेः क्रमेणानुपूर्व्या वचनानुसारिणामागमपुरस्कारिणां पुंसां पुरुषाणां सद्वृत्तानां सच्चरित्राणां सततमनवरतं श्राद्धानां श्रद्धायुक्तानां परिणमन्त्यात्मसाद्भवत्युच्चैरत्यर्थम् ॥ ११ ॥ निष्पन्नयोगानां चित्तं किमेतत्सहितं नेत्याह ॥ एतद्रहितं तु तथा तत्त्वाभ्यासात्परार्थकार्येव । सद्बोधमात्रमेव हि चित्तं निष्पन्नयोगानाम् ॥ १२ ॥ य० एतद्रहितं तु मैत्र्यादिभावनारहितं तु । तथा तेनप्रकारेणेतरासंभविना तत्त्वाभ्यासात्परमार्थाऽभ्यासात्तत्स्वरूपाभ्यासाद्वा परार्थकार्येव परोपकारकरणैकशीलमेव । सद्बोधमात्रमेव हि निर्मलज्ञानमात्रमेव हि शेषदोषवियुक्तं चित्तं चेतनास्वभावं निष्पन्नयोगानां योगिविशेषाणां तु लिङ्गं चेदं " दोषव्यपायः परमा च वृत्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतंभरा धीर्निष्पन्नयोगस्य तु चिह्नमेतत् " ॥ १२ ॥ उ० एतच्च योगारम्भकारब्धयोगान् प्रत्युक्तं, निष्पन्नयोगानां तु चित्तं कीदृशमित्याह । एतदित्यादि । एतद्रहितं तु निर्विकल्प संस्कारेण मैत्र्यादिभावनानाशात्तद्रहितमेव तथा तेन प्रकारेणेतरासंभविना तत्त्वाभ्यासासर मार्थाभ्यासात्प्रकृष्टभावनाजनिततद्विप्रमुक्ततत्त्वज्ञानादितर संस्कारादित्यर्थः । परार्थकार्येव परोपकारैकशीलमेव सद्बोधो निर्मलज्ञानं तन्मात्रमेव हि शेषदोषरहितं चित्तं निष्पन्नयोगानां तलक्षणं चेदं "दोषव्यपायः परमा च वृत्तिरौचित्ययोगः समता च गुब्वीं । वैरादिनाशोऽथ ऋतंभरा धीर्निष्पन्नयोगस्य तु चिह्नमेतत्" पूर्वलक्षणं चैतत् "अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्र Jain Education International For Private & Personal Use Only टीकाद्वय समेतम्. ॥ ७५ ॥ www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy