SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ तृतीया । परं प्रकृष्टं मोहक्षयादिसंभवं यत्सुखं तस्मिन् चतुर्थी मुदिता । करुणा चानुबन्धश्च निर्वेदश्च तत्त्वं च एतानि | सारो यस्याः सा तथेत्यमुना प्रकारेण चतुर्विधोपेक्षा । करुणा मोहयुतकरुणा तत्सारोपेक्षा प्रथमा यथा कश्चिदातुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्याहितं जानानोऽपि तन्निवारणमवधीर्योपेक्षां करोति मा भूदनुकम्पाभंग इति । अनुबन्धः फल| सिद्धान्तः कार्यविषयः प्रवाहपरिणामस्तत्सारा द्वितीया । यथा कश्चित् कुतश्चिदालस्यादेरर्थार्जनादौ न प्रवर्त्तते तं चाऽप्रवर्त्तमानमन्यदा तद्धितार्थी प्रवर्त्तयति विवक्षिते तु काले परिणामसुन्दर कार्यसन्तानमवेक्षमाणो माध्यस्थ्यमवलम्बत इति । निर्वेदो भववैराग्यं तत्सारा तृतीया यथा चतसृषु गतिषु नानाविधदुःखपरंपरामनुभवतो जीवस्य कथंचिन्मनुजदेवगतिषु सर्वेन्द्रियाह्लादकं सुखविशेषमनुपश्यतोऽपि तदसारताकादाचित्कत्त्वाभ्यां तस्मिन्नुपेक्षा, तत्त्वं वस्तुस्वभावस्तत्सारा चतुर्थी या मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो रागद्वेषानुत्पादकत्त्वेन स्वापराधमेव मोहविकारसमुत्थं भावयतः स्वरूपव्यवस्थितवस्त्वपराधमपश्यतो बाह्यार्थेषु सुखदुःखहेतुतानाश्रयणान्माध्यस्थ्यमवलम्बमानस्य भवति ॥ १० ॥ केषां पुनरेताश्चतस्रो मैत्र्याद्याः परिणमन्तीत्याह ॥ एताः खल्वभ्यासाक्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः ॥ ११ ॥ य० एताः प्रागुक्ताः खलुशब्दः पुनः शब्दार्थेऽभ्यासात्परिचयात्पुनः पुनरावृत्तेः क्रमेणानुपूर्व्या । वचनानुसारिणामागमानुसारिणां पुंसां मानवानां सद्वृत्तानां सच्चरित्राणां सततमनवरतं श्राद्धानां श्रद्धायुक्तानां परिणमन्त्यात्मसाद्भवन्ति उच्चैरत्यर्थम् ॥ ११ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy