SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ टीकाद्वय | समेतम्. श्रीषोडश-18 चानुबन्धश्च निर्वेदश्च तत्त्वं च एतानि सारो यस्या उपेक्षायाः सा तथोक्ता । करुणासाराऽनुवन्धसारा निर्वेदसारा त शत्त्वसारा चेति चतुर्विधोपेक्षा । करुणा घृणा सा चेहातुरापथ्यासेवनविषया तथाह्यातुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्य प्रकरणम्. | तन्निवारणमवधीर्योपेक्षां करोति । यद्यप्यसावहितमासेवत इति जानाति तथापि न निवारयतीयं करुणासारोपेक्षाऽनुबन्धः कार्यविषयः प्रवाहपरिणामस्तत्सारा यथा कश्चित्कुतश्चिदालस्यादेरर्थार्जनादिषु न प्रवर्तते तं चाप्रवर्त्तमानमन्यदा तद्धितार्थी प्रवर्त्तयति विवक्षिते तु काले परिणामसुन्दरं कार्यसन्तानमवेक्षमाणो यदा माध्यस्थ्यमवलम्बते तदा तस्यानुवन्धसारोपेक्षा । निर्वेदो निविण्णता तत्सारा नारकतिर्यग्नरामरभवेषु नानाविधानि दुःखानि वेदयतो जीवस्य कथंचिन्मनुजदेवगतिषु सर्बेन्द्रियोत्सवकरं संसारिसत्त्वाहादकं सुखविशेषमनुपश्यतोऽपि तदसारताकादाचित्कत्त्वाभ्यां तस्मिन्नुपेक्षा कुर्बाणस्य निर्वेदसारोपेक्षा । तत्त्वं परमार्थस्तद्भावस्तत्त्वमिति वस्तुस्वभावो वा तत्सारा मनोज्ञामनोज्ञानां वस्तूनां जीवाजीवात्मकानां परमार्थतो रागद्वेषानुत्पादकत्त्वेन स्वापराधमेव मोहादिकर्मविकारसमुत्थं भावयतस्तेषां स्वरूपवृत्तिव्यवस्थितानामपराधमपश्यतः सुखदुःखादिहेतुत्त्वाऽनाश्रयणान्माध्यस्थ्यमवलम्बमानस्य तत्त्वसारोपेक्षा निर्वेदाभावेऽपि| भवतीति ॥ १०॥ उ० सुखमात्र इत्यादि । सुखमात्रे सामान्येनैव वैषयिकेऽपथ्याहारतृप्तिजनितपरिणामासुन्दरसुखकल्पे स्वपरनिष्ठे प्रथमा मुदिता । सन् परिणामसुन्दरसुखजननशक्तिमान हेतुर्यस्य तादृशे हितमिताहारपरिभोगजनितरसास्वादकसुखकल्पे स्वपरगतैहिकसुखविशेषे द्वितीयाऽनुवन्धो देवमनुजजन्मसु सुखपरंपराविच्छेदस्तेन युते लोकद्वयसुखे आत्मपरापेक्षया हा।। ७४॥ Jain Education in national For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy