SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ स्वकीयो जनो नालप्रतिबद्धादिस्तस्मिन्नुपकारमनपेक्ष्यापि स्वजनबुद्ध्यैव या मैत्री सा द्वितीया । इतर उपकारिस्वजन-18 | भिन्नः परिचितो गृह्यते सामान्यस्य पृथग्ग्रहणात्तत्र पूर्वपुरुषप्रतिपन्नसम्बन्धे स्वप्रतिपन्नसम्बन्धे वोक्तनिमित्तद्वयनिरपेक्षा या मैत्री सा तृतीया सामान्ये सर्वस्मिन्नेव जने परिचितापरिचितसाधारण्येनोक्तनिमित्तत्रयनिरपेक्षा या मैत्री सा चतुर्थी ।। मोहश्चासुखं च संवेगश्चान्यहितं च तैर्युता चैव करुणा भवति । मोहोऽज्ञानं तेन युता ग्लानयाचितापथ्यवस्तुप्रदानाभिलाषसदृशी प्रथमाऽसुखं सुखाभावः स यस्मिन् प्राणिन्यस्ति तस्मिन् या लोकसिद्धाहारवस्त्रासनादिप्रदानलक्षणा सा द्वितीया । संवेगो मोक्षाभिलाषस्तेन सुखितेष्वपि सत्त्वेषु सांसारिकदुःखत्याजनेच्छया छद्मस्थानां स्वभावतः प्रीतिमत्तया प्रवर्तते सा तृतीया । या त्वन्यहितेन प्रीतिमत्तासम्बन्धविकलसर्वसत्त्वहितेन केवलिनामिव भगवतां महामुनीनां सर्वानुग्रहपरानुकम्पा सा चतुर्थी ॥९॥ सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु । करुणानुबन्धनिर्वेदतत्त्वसारा रापेक्षेति ॥ १०॥ य० सुखमात्र सामान्येनैव वैषयिकं यदपथ्याहारतृप्तिजनितपरिणामासुन्दरपरि(सुख)कल्पं स्वपरजीवप्रतिष्ठितं तस्मिन् प्रथमा मुदिता।सतः शोभनस्य परिणामसुन्दरस्य । हितमिताहारपरिणामजनितस्येव परिहृष्टस्येहलोकगतस्य सुखस्य यो हेतुस्तथाविधाहारपरिभोगजनितस्वादुरसास्वादसुखकल्पः स्वपरगतस्तस्मिन् सद्धेतावैहलौकिके सुखविशेषे द्वितीया । अनुबन्धः सन्तानोऽव्यवछिन्नसुखपरम्परया देवमनुजजन्मसु कल्याणपरम्परारूपस्तेन प्रयुज्यते । सुखे परभवेहभवापेक्षया । आत्मपरापेक्षया च तृतीया । परं प्रकृष्टं मोहक्षयादिसम्भवमव्यावाधं च यत्सुखमनवयंशाश्वतं च तस्मिन् चतुर्थी मुदिता । करुणा JainEducationinta For Private & Personal Use Only Einelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy