________________
श्रीषोडश
प्रकरणम्.
॥ ७३ ॥
Jain Education
एताश्चतुर्विधा इत्युक्तं तदेव चातुव्विध्यं प्रत्येकमभिधातुमाह ॥
उपकारिस्वजनेतर सामान्यगता चतुर्विधा मैत्री | मोहासुखसंवेगान्यहितयुता चैव करुणेति ॥ ९ ॥ य० उपकारी च स्वजनश्चेतरश्च सामान्यं च । एतद्गता एतद्विषया चतुविधा चतुर्भेदा मैत्री भवति । उपकर्तुं शीलमस्येत्युपकारी उपकारं विवक्षितपुरुषसम्बन्धिनमाश्रित्य या मैत्री लोके प्रसिद्धा सा प्रथमा । स्वकीयो जनो नालप्रतिवद्धादिस्तस्मिन्नुपकारमन्तरेणापि स्वजन इत्येव या मैत्री तदुद्धरणादिरूपा प्रवर्त्तते सा द्वितीया । इतरः प्रतिपन्नः पूर्वपुरुषप्र| तिपन्नेषु वा स्वजनसम्बन्धनिरपेक्षा या मैत्री सा तृतीया । सामान्ये सामान्यजने सर्व्वस्मिन्नेवाऽपरिचितेऽपि हितचिन्तनरूपा प्रतिपन्नत्त्वसम्बन्धनिरपेक्षा चतुर्थी मैत्री । मोहश्चासुखं च संवेगश्चान्यहितं च तैर्युता चैव समन्विता चैव करुणेति करुणा भवति । मोहोऽज्ञानं तेन युता ग्लानापथ्यवस्तुमार्गणप्रदानाभिलाषरूपा प्रथमा । असुखं सुखाभावो यस्मिन् प्राणिनि दुःखिते सुखं नास्ति तस्मिन्याऽनुकम्पा लोकप्रसिद्धा आहारवस्त्रशयनासनादिप्रदानलक्षणा सा द्वितीया । संवेगो मोक्षाभिलाषस्तेन सुखितेष्वपि सत्त्वेषु प्रीतिमत्तया सांसारिकदुःखपरित्राणेच्छा छद्मस्थानां या स्वभावतः प्रवर्त्तते सा तृतीया । अन्यहितयुता सामान्येनैव प्रीतिमत्तासम्बन्धविकलेष्वपि सर्व्वेष्वेवान्येषु सत्त्वेषु केवलिनामिव भगवतां महामुनीनां सर्व्वानुग्रहपरायणा हितबुद्ध्या चतुर्थी करुणा ॥ ९॥
उ० उक्तमेव प्रत्येकं चातुर्विध्यं विवृण्वन्नाह उपकारीत्यादि । उपकारी च स्वजनश्चेतरश्च सामान्यं च एतद्गता चतुविधा चतुर्भेदा मैत्री भवति । तत्रोपकर्तुं शीलमस्येत्युपकारी तत्कृतमुपकारमपेक्ष्य या मैत्री लोके प्रसिद्धा सा प्रथमा ।
For Private & Personal Use Only
टीकाद्वय समेतम्.
॥ ७३ ॥
jainelibrary.org