SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ ७१ ॥ तया सेवनं करणमत्र प्रक्रमे भवति जायते । विधिपूर्व विधिमूलं धर्म्मकथान्तं धर्म्मकथावसानं क्रमशः क्रमेण तदासेवनं स्वाध्यायोऽपि पूर्वोक्तनिर्व्वचनो विनिर्दिष्टः कथित इति ॥ ३ ॥ उ० स्वाध्यायमाह यत्त्वित्यादि । यत्तु यत्पुनः खलुशब्दो वाक्यालङ्कारे वाचनादेर्वाचनाप्रश्नपरावर्त्तनादेरासेवनमभिव्याया मर्यादया वा प्रवचनोक्तया सेवनं करणमत्र प्रक्रमे भवति जायते विधिपूर्व विधिमूलं धर्मकथान्तं धर्मकथाsaसानं क्रमशः क्रमेण तदासेवनं स्वाध्यायो विनिर्दिष्टः कथितः सुष्ठु शोभनं आ अभिव्याध्याऽध्ययनं स्वाध्यायः स्वं स्वकीयमध्ययनं वा स्वाध्याय इति व्युत्पत्तेः ॥ ३ ॥ योगाभ्यासमाह ॥ स्थानोर्णार्थालम्बनतदन्ययोगपरिभावनं सम्यक् । परतत्त्वयोजनमलं योगाभ्यास इति तत्त्वविदः ॥४॥ ० स्थीयतेऽनेनेति स्थानमासनविशेषरूपं कायोत्सर्गपर्यङ्कबन्धपद्मासनादि सकलशास्त्रसिद्धम् । ऊर्णः शब्दः स च वर्णात्मकः । अर्थः शब्दस्याभिधेयमालम्बनं बाह्यो विषयः प्रतिमादिस्तस्मादालम्बनादन्यस्तद्विरहितस्वरूपोऽनालम्बन इतियावत् । स्थानं चोर्णश्चार्थश्चालम्बनं च तदन्यश्चैत एव योगास्तेषां परिभावनं सर्व्वतोऽभ्यसनं सम्यक्समीचीनं परं तत्त्वं योजयतीति परतत्त्वयोजनं, मोक्षेण योजनादलमत्यर्थं योगस्य योगाङ्गरूपस्य ध्यानस्य वाभ्यासः परिचयो योगाभ्यासः इतीत्थं तत्त्वविदोऽभिवदन्ति ( विन्दति ) । कथं पुनः स्थानादीनां योगरूपत्वं येन तत्परिभावनं योगाभ्यासो भवेत् । उच्यते । योगाङ्गत्त्वेन, योगाङ्गस्य च शास्त्रेषु योगरूपताप्रसिद्धेर्हेतुफलभावेनोपचारात् । योगाङ्गत्वं तु स्थानादीनां प्रतिपादितमेव योग- Jain Education international For Private & Personal Use Only टीकाद्वय समेतम्. ॥ ७१ ॥ www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy