SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ G श्रीषोडश परथयोयमपि वक्ष्यमयावदितव्या साधयति । गुरुविन टीकाद्वय. समेतम्. प्रकरणम्. य० गुरुविनयो वक्ष्यमाणः शोभनमभिव्याप्त्याऽध्ययनं स्वाध्यायः स्वकीयमध्ययन वा अयमभिधास्यमान एव योगो ध्यानं तस्याऽभ्यासः परिचयोयमपि वक्ष्यमाणस्वरूप एव । परस्यार्थ उपकारस्तत्करणं च वक्ष्यमाणं इति कर्त्तव्यतया अभिधायिष्यमाणस्वरूपया सह सार्द्ध विज्ञेया वेदितव्या साधूनां सच्चेष्टा साधुसच्चेष्टा ॥१॥ | उ० दीक्षितः साधुः सच्चेष्टां सम्यक्करोतीत्युक्तं तामेवोपदर्शयति । गुरुविनय इत्यादि । गुरुविनयादिरूपा पञ्चविधा साधूनां सच्चेष्टा शोभनबाह्यव्यापाररूपा विज्ञेया ॥१॥ गुरुविनयस्वरूपमाह ॥ औचित्त्याद्गुरुवृत्तिर्वहुमानस्तत्कृतज्ञताचित्तम् । आज्ञायोगस्तत्सत्यकरणता चेति गुरुविनयः ॥ २॥ य. औचित्त्यादौचित्त्येन पुरुषभूमिकापेक्षया गुरुवृत्तिगुरुषु वर्त्तनं वैयावृत्त्यद्वारेण बहुमान आन्तर प्रीतिविशेषो भावप्रतिबन्धः सदन्तःकरणलक्षणो न मोहो मोहो हि ससङ्गप्रतिपत्तिरूपः शास्त्रे निवार्यते । गुरुषु गौतमस्नेहप्रतिबन्धन्यायेन तस्य मोक्षं प्रत्यनुपकारकत्वात् । मोक्षानुकूलस्य तु भावप्रतिवन्धस्यानिषेधात्ततः सकलकल्याणसिद्धेः यो हि गुरुकृतमुपकारमात्मविषयं विशिष्टविवेकसम्पन्नतया जानाति । यथाऽस्मास्वनुग्रहप्रवृत्तः स्वकीयक्लेशनिरपेक्षतया रात्रिन्दिवं महान् प्रयासः शास्त्राध्ययनपरिज्ञानविषयः प्रभूतं कालं यावत्कृत इति स कृतज्ञ उच्यतेऽथवाल्पमप्युपकारं भूयांसं मन्यतेऽथवा कृताकृतयोलोकप्रसिद्धयोबिभागेन कृतस्य मतिपाटवाद्विशेषविषयं स्वरूपं परिच्छिनत्ति, न पुनर्जडतया कृतमपि साक्षात्प्रणालिकया वा न वेत्ति ततस्तद्भावः कृतज्ञता तेषु गुरुषु कृतज्ञतासहितं चित्तं तत्कृतज्ञताचित्तं । आज्ञायोगः SCO Jain Education International For Private Personal Use Only wwwjanary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy