SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. समेतम्. वति । तन्मयता तन्मयत्त्वं तत्परता सूक्ष्माश्च तेऽर्थाश्च वन्धमोक्षादयस्तेषामालोचना तया सूक्ष्मालोचनया संवेगो | टीकाद्वयमोक्षाभिलाषः स्पर्शयोगश्च स्पर्शस्तत्त्वज्ञानं तेन योगः सम्भवतीति ॥ १४ ॥ ___ अस्यैव दीक्षावतः प्रागुत्तरकालभाविगुणयोगमाह । ध्यानेत्यादि । ध्यानं स्थिराध्यवसानरूपं धर्म्य शुक्लं च यथोक्तम्-13 “एकालम्बनसंस्थस्य सदृशप्रत्ययस्यच । प्रत्ययान्तरनिर्मुक्तःप्रवाहो ध्यानमुच्यते" अध्ययनं स्वाध्यायपाठस्तयोरभिरतिरनवरतप्रवृत्तिः प्रथममादौ दीक्षासम्पन्नस्य भवति पश्चात्तु तन्मयता ध्येयगुणमयत्त्वं भवति तथा सूक्ष्मानामर्थानां बन्धमोक्षादीनामालोचनया संवेगो मोक्षाभिलाषः स्पर्शेन तत्त्वज्ञानेन योगः सम्बन्धश्च भवति ॥ १४ ॥ स्पर्शयोगश्चेत्युक्तं तत्र स्पर्शलक्षणमाह ॥ स्पर्शस्तत्तत्त्वाप्तिः संवेदनमात्रमविदितं त्वन्यत् । वन्ध्यमपि स्यादेतत्स्पर्शस्त्वक्षेपतत्फलदः॥१५॥ __ य० स्पृश्यतेऽनेन वस्तुनस्तत्त्वमिति स्पर्शः। स च कीदृगित्याह तत्तत्त्वाप्तिस्तस्य तस्य वस्तुनो जीवादेस्तत्त्वं स्वरूपं तस्याप्तिरुपलम्भो ज्ञानं स्पर्श उच्यते, संवेदनमात्रं वस्तुस्वरूपपरामर्शशून्यमविदितं त्वन्यत् कथञ्चिद्वस्तुग्राहित्त्वेऽपि न विदितं वस्तु तदित्यविदितमुच्यते वन्ध्यमपि विफलमपि स्यादेतत्संवेदनमात्रं । स्पर्शस्तु स्पर्शः पुनरक्षेपतत्फलदोऽक्षेपेणैव तत्स्वसाध्यं फलं ददातीत्ययमनयोः स्पर्शसंवेदनयोर्विशेष इति ॥ १५ ॥ उ० स्पर्शस्य लक्षणं फलातिशयं चाह । स्पर्श इत्यादि तस्य विवक्षितस्य वस्तुनस्तत्त्वमनारोपितं रूपं तस्याप्तिरुपलम्भः। स्पर्शः स्पृश्यतेऽनेन वस्तुवतत्तमिति निरुक्तेः अन्यत्त्वविदितं कथञ्चिद्वस्तुग्राहित्त्वेपि प्रमाणपरिच्छेद्यसंपूर्णार्थ(ा)ग्राहित्त्वे Jain Etna For Private & Personal Use Only Diainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy