SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ सर्व पूर्वोक्तं दशविधमपि क्षान्त्यादि शुक्लमिदं खलु निरतिचारमिदमेव नियमादितरव्यावृत्त्या शुक्लस्याऽशुक्लनिवर्तकत्त्वात् संवत्सरादूर्द्ध क्रियामलत्यागेन संवत्सरकालात्त्ययेन शुक्लं भवतीति ॥ १३ ॥ ___ उ० अस्यामेव सर्वविरतिदीक्षायां क्षान्त्यादियोजनामाह । वचनेत्यादि । आकिञ्चन्यमित्यादि । वचनक्षान्तिरागमक्षान्तिरिह दीक्षायामादौ प्रथमं धर्मक्षान्तेरादिसाधनं प्रधानकारणं भवति इदमुपलक्षणं तेनास्यामादौ वचनमार्दवादिकारणं भवतीति द्रष्टव्यं शुद्धं चाक्लिष्टं च तपो द्वादशभेदं नियमान्निश्चयेन यमश्च संयमश्च सत्यं चाविसंवादनादिरूपं शौचं च दबाह्याभ्यन्तरभेदम् ॥ १२॥ आकिञ्चन्यं निष्किञ्चनत्त्वं बाह्याभ्यन्तरपरिग्रहत्यागरूपं मुख्य निरुपचरितं ब्रह्मापि ब्रह्मच यमप्यष्टादशभेदशुद्धं परं प्रधानं सदागमो भगवद्वचनं तेन विशुद्धं निर्दोष सर्वमिदं दशविधमपि क्षान्त्यादि शुक्लं निर-1 तिचारं खलुशब्दो वाक्यालङ्कारे नियमान्निश्चयात्संवत्सरादूर्व वर्षपर्यायव्यतिक्रमे क्रियामलत्यागेन तदुत्तरं शुक्लीभवन|स्वभावत्त्वात् ॥१३॥ अस्यैव दीक्षावतः पूर्वोत्तरकालभाविगुणयोगमाह ॥ ध्यानाध्ययनाभिरतिः प्रथमं पश्चात्तु भवति तन्मयता । सूक्ष्मालोचनया संवेगः स्पर्शयोगश्च॥१४॥ __ यध्यानं धर्म्य शुक्लं च स्थिराध्यवसानरूपं, यथोक्तम् “एकालम्बनसंस्थस्य सदृशप्रत्ययस्य च । प्रत्ययान्तरनिर्मुक्तः प्रवाहो ध्यानमुच्यते” अध्ययनं स्वाध्यायपाठः ध्यानं चाध्ययनं च ध्यानाध्ययने । अध्ययनपूर्वकत्त्वेऽपि ध्यानस्याल्पाचतरत्त्वादभ्यर्हणीयत्त्वाच्च पूर्वनिपातस्तयोरभिरतिरासक्तिरनवरतप्रवृत्तिः प्रथममादौ दीक्षासम्पन्नस्य पश्चात्तु पश्चात्पुनर्भ Jain Educationo tonal For Private Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy