SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ नापि रजोहरणमुखवस्त्रिकाद्याकाररूपा धार्यमाणा भावगर्भप्रवृत्त्यारोग्यमुपजनयति द्रव्यमप्याचारादिश्रुतं साधुक्रिया चाभ्यस्यमाना व्रतस्थैर्योपपत्तये भवति भावोऽपि सम्यग्दर्शनादिरूपः प्रागुक्तपदावाप्तये सम्पद्यते भावाचार्यादिपदस्य विशिटभावनिमित्तत्त्वादथवा सळण्येव नामादीनि सामान्येन कीर्त्यारोग्यमोक्षप्राप्तेः सूचकानि ॥९॥ किमिति दीक्षाप्रस्तावे नामादिषु यतितव्यमित्याशङ्कयाह ॥ तत्संस्कारादेषा दीक्षा सम्पद्यते महापुंसः । पापविषापगमात् खलु सम्यग्गुरुधारणायोगात् ॥ १०॥। | य० तत्संस्कारान्नामादिसंस्कारादेपा द्विविधा दीक्षा व्रतरूपा सम्पद्यते सम्भवति महापुंसो महापुरुषस्य न ह्यमहापुरुषा व्रतधारिणो भवन्ति । पापं विषमिव पापविषं तस्यापगमात् खल्वपगमादेव । पापविषयोऽिपगमात् । विषापहारिणी दीक्षेति केषाञ्चित्प्रसिद्धिस्तदनुरोधादिदमुक्तम् । पापविषापगमादेव दीक्षेति सम्यगवपरीत्त्येन गुरुश्च धारणा च |गुरुधारणे ताभ्यां योगः सम्बन्धस्तस्माद्गुरुधारणायोगात् । गुरुयोगात्पापापगमो धारणायोगादेव विषापगम इति ॥१०॥ । उ० नामादिषु यत्ने कृते दीक्षायां किमागतमित्यत आह । तदित्यादि । तेषां नामादीनां संस्कारादेपा द्विविधा दीक्षा व्रतरूपा सम्पद्यते महापुंसो दृढप्रतिज्ञस्य पापमेव विषं तस्यापगमात् खलु अपगमादेव विषापहारिणी दीक्षेति केषाञ्चित्प्रसि-1 द्धिमनुरुद्ध्येदमुक्तं सम्यगवैपरीत्येन गुरोः पापाहिगारुडिकस्याचार्यस्य धारणाध्यत्तत्वं तेन योगात् सम्बन्धात् ॥ १०॥ | दीक्षा सम्पद्यते महापुंस इत्युक्तं तत्सम्पत्तौ सर्वविरतस्य यद्भवति, तदाह ॥ सम्पन्नायां चास्यां लिङ्गं व्यावर्णयन्ति समयविदः । धर्मेकनिष्टतैव हि शेषत्यागेन विधिपूर्वम् ॥११॥ Jain Educato Artha For Private & Personal Use Only Vallainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy