________________
कथं पुनर्विशिष्टनामन्यासस्य स्वगुरुभिः प्रसादीकृतस्य दीक्षानिमित्तत्त्वमिति मन्यमानं परं प्रत्याह ।। नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । तत्स्थापना तु दीक्षा तत्त्वेनान्यस्तदुपचारः॥८॥
य० नामनिमित्तं नामहेतुकं तद्भावस्तत्त्वं नामप्रतिपाद्यगुणात्मकत्त्वं । कृतप्रशान्तादिनाम्नः प्रशमादिरूपोपलम्भात् । तसानाम्नि च तद्गुणस्मरणाद्युपलब्धेस्तथा तथा चोद्धृतं तेन तेन स्वरूपेणोद्धृतमुदूढम् कृतनिर्वाहं । पुरा पूर्व यद्यस्मादिह
प्रवचने मुनिभिः तत्स्थापना तु तस्यैव नाम्नः स्थापना तु स्थापनैव नामन्यास एव दीक्षा प्रस्तुता तत्त्वेन परमार्थेनाऽन्यस्तदुपचारोऽन्यक्रियाकलापस्तदुपचारस्तस्या दीक्षाया उपचारो वर्तते विद्योपचारात् ॥८॥
उ० नामन्यासस्य दीक्षानिमित्तत्त्वे को हेतुरित्यत आह । नामेत्यादि । यद् यस्मान्नामनिमित्तं नामहेतुकं तत्त्वं नामप्र-४ तिपाद्यगुणवत्त्वहेतुकं प्रशान्ततादिजननाभिप्रायेणाप्तकृतप्रशान्तादिनाम्नःप्रशमादिरूपोपलम्भात्तत्तन्नाम्नैव तत्तदभिप्रायस्मरणात्तत्तद्गुणानुकूलप्रवृत्त्या तत्तद्गुणसिद्धेस्तथा तथा च तेन तेन स्वरूपेणोद्धृतं कृतनिर्वाहमिह प्रवचने मुनिभिः । तस्मात् तत्स्थापनैव तत्त्वेन परमार्थेन दीक्षाऽन्यः क्रियाकलापस्तदुपचारो नामस्थापनारूपमुख्यदीक्षाकर्मणः पूर्वोत्तरभावेनाङ्गमात्ररूप इत्यर्थः ॥८॥
कस्मात्पुनर्नामादिन्यासे महानादरः क्रियत इत्याशङ्कयाह । कीर्त्यारोग्यध्रुवपदसम्प्राप्तेः सूचकानि नियमेन । नामादीन्याचार्या वदन्ति तत्तेषु यतितव्यम् ॥९॥ य. कीर्तिः श्लाघा । आरोग्यं नीरुजत्त्वं प्राक्तनसहजोत्पातिकरोगविरहेण । ध्रुवं स्थैर्य भावप्राधान्यान्निर्देशस्य । पदं
श्रीषो. १२
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org