SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ य. यस्य विशिष्टज्ञानरहितस्याप्यस्ति विद्यते सक्रियायां सदाचारे । इत्थमनेन प्रकारेण सामर्थ्ययोग्यता सामर्थेन समानफलसाधकत्त्वरूपेण योग्यताऽविकला परिपूर्णा । गुरुषु धर्माचार्यादिषु भावप्रतिबन्धात् भावतः प्रतिबद्धत्त्वेन हेतुना दीक्षोचित एव दीक्षायोग्य एव प्रस्तुतः किलेत्याप्तागमवादः यतः संसारविरक्त एवास्या अधिकारी शेषगुणवैकल्येऽपीत्युक्तम् ॥५॥ उ० इत्थं ज्ञानिवदज्ञानिनोप्युक्तरूपस्य तुल्यफलत्त्वाद् दीक्षायोग्यत्त्वमिति दर्शयति । यस्येत्यादि । यस्य विशिष्टज्ञानरहितस्याप्यस्ति सक्रियायां सदाचारे इत्थमनेन प्रकारेण सामर्थ्य समानफलजननशक्तिरेव योग्यतोत्तमता गुरुषु धर्मा|चार्यादिषु भावप्रतिबन्धादन्तरङ्गसम्बन्धात् सोऽपि दीक्षोचित एव किलेत्याप्तागमवादः शेषगुणवैकल्येऽपि संसारविरक्त एवात्राधिकारीतिभावः ॥५॥ इदानीं दीक्षायाः समानफलतया देयत्त्वमभिदधानो विषमफलस्य चाऽदेयत्त्वमुपदर्शयन्निदमाह ॥ || देयाऽस्मै विधिपूर्वं सम्यक्तत्रानुसारतो दीक्षा । निर्वाणबीजमेषेत्यनिष्टफलदान्यथात्यन्तम् ॥६॥ 18 य. देया दातव्याऽस्मै योग्याय विधिपूर्व विधानपूर्वं सम्यगवैपरीत्येन तन्त्रानुसारतः शास्त्रानुसारतो दीक्षा व्रत-18 रूपा निर्वाणस्य बीजं मोक्षसुखयोर्हेतुत्त्वेन । एषेति दीक्षैवानिष्टफलदा विपर्यायफला संसारफलाऽन्यथाऽयोग्याय दीयमानाऽत्यन्तमतिशयेनेति ॥६॥ Jain Education inmal For Private Personal Use Only Tainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy