SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Jain Education In | तस्माच्छ्राद्धः श्रद्धावान् । यस्तु सानुबन्धदोषान्निरुपक्रमक्लिष्टकर्म्मलक्षणात् कथञ्चिच्छ्राद्धो भवति । स नेह गृह्यते । अनाभोगवान् अनाभोगोऽपरिज्ञानमात्रमेव केवलं ग्रन्थार्थादिषु सूक्ष्मबुद्धिगम्येषु स विद्यते यस्य स तथा वृजिनं पापं तस्माद्भीरुर्वृजिन भीरुः संसारविरक्तत्त्वेन । गुरवः पूज्यास्तेषु भक्तो गुरुबहुमानात् । ग्रह आग्रहो मिथ्याभिनिवेशस्तेन रहितो ग्रहरहितोऽनेन सम्यग्दर्शनवत्त्वमस्यावेदयति सोऽपि य एवमुक्तविशेषणवान् । ज्ञान्येव ज्ञानवानेव । तत्फलतो | ज्ञानफलसम्पन्नत्त्वेन ज्ञानस्यापि ह्येतदेव फलं संसारविरक्तत्त्वगुरुभक्तत्त्वादि । तदस्यापि विद्यत इति कृत्वा ॥ ३ ॥ उ० ननु यदि ज्ञानिन एव दीक्षा साध्वी तदा कथं प्रागुक्तज्ञानत्रयविकलानां माषतुषादीनां समये सा श्रेयसी श्रूयत इत्याशङ्कयाह । य इत्यादि यो निरनुबन्धाज्यवच्छिन्नसन्तानाद्दोषाज् ज्ञानावरणादेः श्राद्धः श्रद्धावान् यस्तु सानुबन्धदोषान्निरुपक्रमक्लिष्टकर्म्मलक्षणाज्जातभावप्रतिघातः कथञ्चिच्छ्राद्धो भवति स नेह गृह्यतेऽनाभोगः सूक्ष्मधीगम्यग्रन्थार्थापरिज्ञानमात्रं स एव यस्यास्ति सोऽनाभोगवान् वृजिनात्यापाद् भीरुर्भवविरक्तत्त्वात् गुरुषु पूज्येषु भक्तस्तद्बहुमानित्त्वात् ग्रहो मिथ्याभिनिवेशस्तेन रहितः सोऽपि य ईदृगुक्तविशेषणवान् ज्ञान्येव ज्ञानवानेव तत्फलतो ज्ञानफलभावाज् ज्ञानेनापि भवविरक्तत्त्वादि फलं क्रियते तदस्याप्यस्तीतिकृत्वा ॥ ३ ॥ कथं पुनर्ज्ञानफलं माषतुषादेर्गुरु बहुमानमात्रेण तथाविधज्ञानविकलस्य सन्मार्गगमनादीत्याशङ्कयाह ॥ चक्षुष्मानेकः स्यादन्धोऽन्यस्तन्मतानुवृत्तिपरः । गन्तारौ गन्तव्यं प्राप्नुत एतौ युगपदेव ॥ ४ ॥ य० चक्षुरमलमनुपहतं विद्यते यस्य स चक्षुष्मानेकः कश्चित्स्याद्भवेत्पुरुषो मार्गगमनप्रवृत्तः अन्धो दृष्टिविकलोऽन्यस्तद For Private & Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy