________________
श्रीषोडश
त्रये सति दीक्षाया विरतिरूपाया अधिकारी अधिकारवान् तत्त्वतः परमार्थतो भवति सत्त्वः पुमानितरस्यानधिकारिणः | पुनः दीक्षा वसन्तनृपसन्निभा चैत्रमासपरिहासकृतराजतुल्या विडम्बनप्रायत्त्वेन ज्ञातव्या ॥ १ ॥ अधुना दीक्षाया निरुक्तमुपदर्शयन् ज्ञानिन एव तां नियमयन्नाह ॥
प्रकरणम्.
॥ ६४ ॥ श्रेयोदानादशिवक्षपणाच्च सतां मतेह दीक्षेति । सा ज्ञानिनो नियोगाद्यथोदितस्यैव साध्वीति ॥ २ ॥
य० श्रेयोदानाच्छ्रेयः सुन्दरं तस्य दानं वितरणं तस्मात् । अशिवं प्रत्यवायस्तत्क्षपणाञ्च तन्निरसनाच्च । सतां मुनीनां | मताऽभिप्रेता इह प्रवचने दीक्षेति प्रागुक्ता । इत्येवमनया निरुक्तप्रक्रियया सा दीक्षा ज्ञानिनो ज्ञानवतो नियोगान्नियोगेन यथोदितस्यैवाधिकारिण एव साध्वीति निरवद्या वर्त्तते ॥ २ ॥
उ० दीक्षापदनिरुक्तमुपदर्शयन् ज्ञानिन एव तां निगमयन्नाह । श्रेय इत्यादि । श्रेयसः कल्याणस्य दानादशिवस्य प्रत्यवायस्य क्षपणाच्च सतां मुनीनां मताभिप्रेतेह प्रवचने दीक्षा इत्येवमनया निरुक्तप्रक्रियया सा दीक्षा ज्ञानिनो नियोगान्नियमाद् यथोदितस्यैवाधिकारिण एव साध्वीति निरवद्या वर्त्तते ॥ २ ॥
ननु च यदि ज्ञानिन एव नियमेन साध्वी दीक्षा ततः कथं पूर्वोक्तज्ञानत्रयविकलानां माषतुषप्रभृतीनां समये सा श्रेयसी श्रूयत इत्याशङ्कयाह ॥
यो निरनुबन्धदोषाच्छ्राद्धोऽनाभोगवान् वृजिन भीरुः । गुरुभक्तो ग्रहरहितः सोऽपि ज्ञान्येव तत्फलतः ३॥ य० य एवंविधो निरनुबन्धदोषाच्छ्राद्धः । निरनुबन्धो व्यवच्छिन्नसन्तानो दोषो रागादिर्भिरनुबन्धश्चासौ दोषश्च
Jain Education International
For Private & Personal Use Only
टीकाद्वय
समेतम्.
॥ ६४ ॥
www.jainelibrary.org