SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Jain Education In उ० ज्ञानविपर्य्ययोः स्वाम्युपदर्शनार्थमाह कारिकाद्वयं । सम्यगित्यादि । लोकेत्यादि । सम्यग्दर्शनस्य तत्त्वार्थश्रद्धानस्य योगाज् ज्ञानं भवति तत्सम्यग्दर्शनं परमं प्रधानं ग्रन्थिभेदतो भवति स ग्रन्थिभेदो नियमत एवापार्द्धपुद्गलपरावर्त्ताधिकसंसारच्छेदी अपूर्वकरणतो यथाप्रवृत्तोत्तरपरिणामविशेषतः स्यात्तच्चापूर्वकरणं लोकात् सर्वस्मादप्युत्तरं प्रधानं | अनादौ संसारे सूत्रार्थग्रहणादितत्तद्धर्मस्थानसंपत्तावप्यजातपूर्वत्त्वात् ॥ १५ ॥ तस्माल्लोकोत्तरस्य लोकातीतचारित्रस्य महानुभावस्याऽचिन्त्यशक्तेः । शान्तचित्तस्योपशान्तमनस औचित्यवत औचित्ययुक्तस्य ज्ञानं ज्ञेयं शेषस्योक्तगुणविपरी| तस्य विपर्य्ययः पदमात्रवाच्यार्थविषयो विपर्य्यासो ज्ञेयः ॥ १६ ॥ ११ ॥ ॥ इति एकादशषोडशकम् ॥ साम्प्रतं ज्ञानत्रयभावाभावयोर्द्दक्षाधिकारित्त्वानधिकारित्त्वप्रतिपादनायाह ॥ अस्मिन्सति दीक्षाया अधिकारी तत्त्वतो भवति सत्त्वः । इतरस्य पुनर्द्दक्षा वसन्तनृपसन्निभा ज्ञेया १ ॥ य० अस्मिन् ज्ञानत्रये सति विद्यमाने दीक्षाया विरतिरूपाया अधिकारी अधिकारवान् शास्त्रनयोदितत्त्वेन तत्त्वतः परमार्थतो भवति सत्त्वः पुमान् इतरस्यानधिकारिणः पुनर्द्दक्षा व्रतरूपा वसन्तनृपसन्निभा विडम्बनाप्राया । चैत्रमासपरि| हासकृतराजसन्निभा मुख्यनृपदीक्षावत्का (वद्दीक्षाका ) र्याकरणेन ज्ञेया ज्ञातव्या ॥ १ ॥ उ० ज्ञानत्रयं प्रागुक्तं तद्भावाभावाभ्यां दीक्षाधिकारानधिकारौ प्रतिपिपादयिषुराह । अस्मिन्नित्यादि । अस्मिन् ज्ञान For Private & Personal Use Only ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy