SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ मिथ्यात्त्वदोषतस्तत्त्वार्थाश्रद्धानदोषाद्वचनादागमाद् दीप इव मण्डलगतो मण्डलाकारविषयो बोधस्तैमिरिकस्येव स बोधो वचनाद्भवन्नपि दोषजत्त्वाद्विपर्ययो मिथ्याप्रत्ययः पदमात्रवाच्यार्थविषयः पापः पापहेतुः॥१२॥ विपर्यय एव प्रस्तुते दृष्टान्तगर्भमुपनयमाह कारिकाद्वयेन ॥ दण्डीखण्डनिवसनं भस्मादिविभूषितं सतां शोच्यम्। पश्यत्यात्मानमलं ग्रही नरेन्द्रादपि ह्यधिकम् १३ मोहविकारसमेतः पश्यत्यात्मानमेवमकृतार्थम् । तद्व्यात्ययलिङ्गरतं कृतार्थमिति तबहादेव ॥१४॥ ___ य० दण्डी खण्डं प्रसिद्धं निवसनं परिधानमस्येति दण्डीखण्डनिवसनस्तं भस्मादिभिर्विभूषितं विच्छुरितं भस्मादिविभूषितं सत्पुरुषाणां शोच्यं शोचनीयं पश्यत्यवलोकयत्यात्मानमलमत्यर्थं ग्रही ग्रहवान् नरेन्द्रादपि ह्यधिक चक्रवर्तिनोऽप्यधिक यथेति गम्यते ॥ १३ ॥ मोहविकारसमेतो मनोविभ्रमदोषसमन्वितः पश्यत्यात्मानमेवमकृतार्थ सन्तं विपर्यायबोधवान् कृतार्थमितिपश्यति तस्य कृतार्थस्य व्यत्ययेन यानि लिङ्गानि तेषु रतस्तं तद्व्यत्ययलिङ्गरतम् । अनेनाकृतार्थत्त्वमेव वस्तुवृत्त्या लादर्शयति । एवंविधोऽपि कृतार्थमिति कुतो मन्यते । तबहादेव सचासौ ग्रहश्च तस्मादेव विवक्षितग्रहावेशादेव । एवंग्रहगृहीतेन विपर्यायवत उपनयः कृतः॥१४॥ उ० विपर्याय एवं प्रस्तुते दृष्टान्तगर्भमुपनयमाह । दण्डीत्यादि । मोहेत्यादि । दण्डीखण्डं कृतसन्धानविशेष जीर्णवस्त्रं तन्निवसनं परिधानं यस्य स तथा तम् । भस्मादिभिर्विभूषितं विच्छुरितं सतां सत्पुरुषाणां शोच्यं शोचनीयं पश्यत्यवलोकयत्यलमत्यर्थमात्मानं ग्रही स्वाग्रहवान्नरेन्द्रादपि हि चक्रवर्तिनोपि हि अधिकमतिशयितं यथेतिगम्यते ॥१३॥ मोह Hone Jain Educatari n a For Private Personal Use Only
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy