SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ तच्चिन्तया तदालोचनयोपेतं सहितं उदक इव सलिल इव तैलबिन्दुस्तैललवो विसर्पि विस्तारयुक्तं चिन्तया निवृत्तं चिन्तामयं तज् ज्ञानं स्याद्भवेत् ॥८॥ भावनाज्ञानलक्षणमाह ॥ | ऐदम्पर्य्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः । एतत्तु भावनामयमशुद्धसद्रत्नदीप्तिसमम ॥९॥ य० ऐदम्पर्य्य तात्पर्य सर्वज्ञेयक्रियाविषये सर्वज्ञाज्ञैव प्रधानं कारणमित्येवंरूपं तद्गतं तद्विषयं यज्ज्ञानं विध्यादौ विधिद्रव्यदातृपात्रादौ, यत्नवत्परमादरयुक्तं तथैवोच्चैः ऐदम्पयंवत्त्वापेक्षया यत्नवत्त्वस्य समुच्चयार्थ तथैवेत्यस्य ग्रहणं । एतत्तु एतत्पुनर्भावनया निवृत्तं भावनामयं ज्ञानं । अशुद्धस्य सद्रत्नस्य जात्यरत्नस्य स्वभावत एव क्षारमृत्पुटपाकाद्यभावेऽपि भास्वररूपस्य या दीप्तिस्तया सममशुद्धसद्रत्नदीप्तिसमम् । यथाहि जात्यरत्नस्य स्वभावत एवान्यरत्नेभ्योऽधिका दीप्तिर्भवत्येवमिदमपि भावनाज्ञानमशुद्धसद्रत्नकल्पस्य भव्यजीवस्य कर्ममलमलिनस्यापि शेषज्ञानेभ्योऽधिकप्रकाशकारि भवति । अनेन हि ज्ञानं ज्ञातं नाम क्रियाप्येतत्पूविकैव मोक्षायाऽक्षेपेण सम्पद्यत इति ॥९॥ | उ० भावनाज्ञानलक्षणमाह । ऐदम्पर्येत्यादि । ऐदम्पर्य तात्पर्य सर्वज्ञेयविषये सर्वज्ञाज्ञैव प्रधानं कारणमित्येवंरूपं तद्गतं तद्विषयं यज् ज्ञानं विध्यादौ विधिद्रव्यदातृपात्रादौ उच्चैरतिशयेन यत्नवत्परमादरयुक्तं तथैवैदम्पर्यवत्त्वयत्नवत्त्वयोः समुचयार्थ तथैवेत्यस्य ग्रहणं एतत्तु एतत्पुनर्भावनया निवृत्तं भावनामयं ज्ञानं अशुद्धस्य क्षारमृत्पुटकाद्यभावेपि नशुद्धिमतोऽपि सद्रत्नस्य स्वभावतो या दीप्तिस्तत्सम यथाहि जात्यरत्नं स्वभावत एवान्यरत्नेभ्योऽधिकदीप्तिमत्तथेदमपि भावना नामपि भावनाज्ञानमशुद्धव मोक्षायाऽक्षपण विषये सर्वज्ञा श्रीषो. ११ Jain Education H iina For Private Personal Use Only jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy