________________
ज्ञानं श्रुतज्ञानं । गुरुभक्त्यादिविधानाद्गुरुभक्तिविनयबहुमानादिकरणात् कारणमेतद्वयस्येष्टं चिन्तामयभावनामयज्ञानद्वयस्य | हेतुरेतत् श्रुतज्ञानमिष्टं । तस्माज्ज्ञानत्रयेऽपि रत्नत्रयकल्पे परमादरो विधेय इति ॥ १६॥१०॥ | उ० उक्तव्यतिरेकस्येष्टतामाह । य इत्यादि । यः कश्चिद् योग्यः शृण्वन् सिद्धान्तमिति पूर्वश्लोकादनुकृष्यते संवेगं मोक्षाभिलाषं गच्छति तस्य योग्यस्येहाद्यं प्रथमं ज्ञानं श्रुतसंज्ञं मतं एतदस्य श्रुतज्ञानं गुरोर्भक्त्यादेर्भक्तिविनयबहमानादविधानाद्यस्य चिन्तामयभावनामयज्ञानयुगलस्य कारणमिष्टन्तस्माज्ज्ञानत्रयेऽपि रत्नत्रयकल्पे परमादरो विधेयः ॥१६॥१०॥
॥इति दशमं षोडशकम् ।। किं पुनः श्रुतज्ञानस्य प्रासंभवि लिङ्गमित्याह ॥ शुश्रूषा चेहाचं लिङ्गं खलु वर्णयन्ति विद्वांसः। तदभावेऽपि श्रावणमसिरावनिकूपखननसमम् ॥ १॥
य० श्रोतुमिच्छा च शुश्रूषा चेहाद्यं लिङ्गं श्रुतज्ञाने प्रथमं लक्षणं खलुशब्दो वाक्यालङ्कारे वर्णयन्ति विद्वांसो विचक्षणास्तदभावेऽपि शुश्रूषाया अभावेऽपि श्रावणं श्रवणे प्रयोजनं कर्त्तव्यं गुरोः शिष्यविषयमिति गम्यते असिरावनिकूपखननसमं असिरायामवनी कूपखननमखननमेव अनुदकप्राप्तिफलत्त्वात्तेन समं विविक्षितफलरहितमित्यर्थः बोधप्रवाहो हि श्रावणस्य फलं उदकप्रवाह इव कूपखननस्य स च शुश्रूषासिराऽभावे न संभवतीति । तेन सममित्युक्तं इति हृदयम् ॥१॥ | उ० किं पुनः श्रुतज्ञानस्य प्राक्संभवि लिङ्गमित्याह । शुश्रूषा चेत्यादि । शुश्रूषा च श्रोतुमिच्छा चेह श्रुतज्ञाने आद्यं | प्रथमं लिङ्गं लक्षणं खलुशब्दो वाक्यालङ्कारे वर्णयन्ति कथयन्ति विद्वांसो विचक्षणाः तदभावेऽपि शुश्रूषाभावेपि श्रावणं
lain Edat
For Private
Personal Use Only
Mw.jainelibrary.org