SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. एतेष्वेव चतुर्वनुष्ठानेषु पञ्चविधक्षान्तियोजनामाह ॥ टीकाद्वय उपकार्यपकारिविपाकवचनधर्मोत्तरा मता क्षान्तिः । आद्यद्वये त्रिभेदा चरमद्वितये विभेदेति ॥१०॥al समेतम्. __य० उपकारी उपकारवान् । अपकारी त्वपकारप्रवृत्तः विपाकः कर्मफलानुभवनमनर्थपरम्परा वा वचनमागमः धर्मः प्रशमादिरूपस्तदुत्तरा तत्प्रधाना मता सम्मता पञ्चविधा क्षान्तिः क्षमा । आद्यद्वये आद्यानुष्ठानद्वये त्रिभेदा त्रिप्रकारा चरमद्वितये चरमानुष्ठानद्वितये द्विभेदेति द्विधा । तत्रोपकारिणि क्षान्तिरुपकारिक्षान्तिस्तदुक्तं दुर्वचनाद्यपि सहमानस्य । तथा अपकारिणि क्षान्तिरपकारिक्षान्तिर्मम दुर्वचनाद्यसहमानस्यायमपकारी भविष्यतीत्यभिप्रायेण क्षमा कुवतः । तथा विपाके क्षान्तिः विपाकक्षान्तिः कर्मफलविपाकं नरकादिगतमनुपश्यतो दुःखभीरुतया मनुष्यभव एव वाऽनर्थपरम्परामालोचयतो विपाकदर्शनपुरस्सरा संभवति तथा वचनशान्तिरागममेवालम्बनीकृत्य या प्रवर्त्तते न पुनरुपकारित्त्वापकारित्त्वविपाकाख्यमालम्बनत्रयं सा वचनपूर्वकत्त्वादन्यनिरपक्षत्त्वात्तथोच्यते धर्मोत्तरा तु क्षान्तिश्चन्दनस्येव शरीरस्य छेददाहादिषु सौरभादिस्वधर्मकल्पा परोपकारकारिणी न विक्रियते सहजत्त्वेनावस्थिता सा तथोच्यते ॥१०॥ __उ० एतेष्वेव चतुर्खनुष्ठानेषु पञ्चविधक्षान्तियोजनामाह । उपेत्यादि । उपकारी उपकारकृदपकारी दुःखदः विपाकोड-3 दृष्टकर्मफलानुभवो दृष्टानर्थपरम्परा वा धर्मः प्रशमादिरूपस्तदुत्तरा तत्सदोत्तरपदाभिधेया क्षान्तिः क्षमा पञ्चविधा मताsभिप्रेता तत्राद्यद्वये प्रथमानुष्ठानयुग्मे त्रिभेदा त्रिप्रकारा चरमद्वितये तु वचनासङ्गरूपे द्विभेदेति द्विधा तत्रोपकार्युक्तं ॥ ५५ ॥ दुर्वचनाद्यपि सहमानस्योपकारिक्षान्तिर्मम प्रतिवचनेन मा भूदुपकारसम्बन्धक्षय इति कृत्वा । मम दुर्वचनाद्यसहमानस्याय For Private N in Education lista Personal Use Only ainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy