SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥ ५३ ॥ Jain Education वति । कर्तुरनुष्ठातुः शेषत्यागेन शेषप्रयोजनत्यागेन तत्काले करोति यच्चातीव धर्म्मादरात् । तदेवंभूतं प्रीत्यनुष्ठानं विज्ञेयम् ॥ ३ ॥ उ० तत्राद्यस्वरूपमाह । यत्रेत्यादि । यत्रानुष्ठाने आदरः प्रयत्नातिशयोऽस्ति प्रीतिश्चाभिरुचिरूपा हित उदयो यस्याः सा तथा भवति कर्तुरनुष्ठातुः शेषाणां प्रयोजनानां त्यागेन च तत्काले यच्च करोति तदेकमात्रनिष्ठतया तत्प्रीत्यनुष्ठानं ज्ञेयम् ॥ ३ ॥ द्वितीयस्वरूपमाह ॥ गौरवविशेषयोगाद्दुद्धिमतो यद्विशुद्धतरयोगम् । क्रिययेतरतुल्यमपि ज्ञेयं तद्भक्त्यनुष्ठानम् ॥ ४ ॥ 1 य० गौरवविशेषयोगात् । गौरवं गुरुत्त्वं पूजनीयत्त्वम् । तद्विशेषयोगात्तदधिकसम्बन्धात् । बुद्धिमतः पुंसो यदनुष्ठानं विशुद्धतरयोगं विशुद्धतर व्यापारं क्रियया कारणेन इतरतुल्यमपि प्रीत्यनुष्ठानतुल्यमपि ज्ञेयं तदेवंविधं भक्त्यनुष्ठानम् ॥४॥ उ० द्वितीयमाह । गौरवेत्यादि । गौरवं गुरुत्त्वं पूज्यत्त्वं तस्य विशेषयोगोऽधिकसम्बन्धस्ततो बुद्धिमतो विशेषग्राहिधीशालिनः । यदनुष्ठानं विशुद्धतरव्यापारं क्रियया बाह्यकारणेनेतरतुल्यमपि प्रीत्यनुष्ठानतुल्यमपि ज्ञेयं तदेवंविधं भक्त्यनुष्ठानम् ॥ ४ ॥ आह कः पुनः प्रीतिभक्त्योर्विशेष उच्यते ॥ अत्यन्तवल्लभा खलु पत्नी तद्वद्धिता च जननीति । तुल्यमपि कृत्यमनयोर्ज्ञातं स्यात्प्रीतिभक्तिगतम् ॥५॥ For Private & Personal Use Only टीकाद्वय समेतम्. ॥ ५३ ॥ jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy