SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश प्रकरणम्. ॥५०॥ यन्ते । तथेह प्रथमा प्रथमावञ्चकयोगात्सम्यग्दृष्टर्भवति द्वितीया तु द्वितीयावश्चकयोगादुत्तरगुणधारिणस्तृतीया च टीकाद्वयतृतीयावञ्चकयोगात्परमश्रावकस्यैव प्रथमकरणभेदेन ग्रन्थ्यासन्नस्य च धर्ममात्रफलैवेयं सद्योगादिभावादनुबन्धासिद्धेश्चे-IN त्ययं पूजाविंशिकायां विशेषः॥१०॥ समेतम्, तिसृष्वपि यद्भवति तदाह ॥ प्रवरं पुष्पादि सदा चाद्यायां सेवते तु तदाता। आनयति चान्यतोऽपि हि नियमादेव द्वितीयायाम्११|| त्रैलोक्यसुन्दरं यन्मनसापादयति तत्तु चरमायाम् । अखिलगुणाधिकसद्योगसारसद्ब्रह्मयागपरः॥१२॥ ___ य० प्रवरं प्रधानं पुष्पादि पुष्पगन्धमाल्यादि सदा च सर्वदैवाद्यायां प्रथमायां सेवते तु सेवत एव ददात्येव तद्दाता तस्याः पूजायाः कर्ता दाता आनयति च वचनेनान्यतोऽपि हि क्षेत्रान्तरात्प्रस्तुतं पुष्पादि नियमादेव नियमेनैव द्वितीयायां पूजायां॥११॥ त्रैलोक्यसुन्दरं त्रिषु लोकेषु प्रधानं यत्पारिजातकुसुमादि नन्दनादिवनगतं मनसान्तःकरणेनापादयति सम्पादयति तत्तु तदेव चरमायां निर्वाणसाधन्यां तदातत्यत्राप्यभिसम्बध्यतेऽयमेव विशिष्यते अखिलैर्गुणैरधिकं सद्योगानां सद्धर्मव्यापाराणां सारं फलकल्पमजरामरत्त्वेन धर्मस्य सारोऽमरत्त्वमिति तत्त्वं सद्योगसारं यत्सद्ब्रह्म परमात्मस्वरूपं तस्य यागो यजनं पूजनं तत्परस्तप्रधानः प्रस्तुतस्तदाताऽखिलगुणाधिकसद्योगसारस ब्रह्मयागपर उच्यते ॥१२॥ उ० तिसृष्वपि यद्भवति तदाह । प्रवरमित्यादि । प्रवरं प्रधानं पुष्पादि पुष्पगन्धमाल्यादि सदा च सर्वदैवाद्यायां प्र- ॥ ५० ॥ थमपूजायां सेवते तु सेवत एव स्वहस्तेन ददात्येवेत्यर्थः। तदाता तत्पूजाकर्ता । आनयति च वचनेनान्यतोऽपि हि M Jain Education international For Private Personal Use Only www.jainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy