SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्रीषोडश- कथं पुनः स्तोत्रेभ्यः पूजा भवतीत्याह ॥ टीकाद्वयशुभभावार्थ पूजा स्तोत्रेभ्यः स च परः शुभो भवति । सद्भूतगुणोत्कीर्तनसंवेगात्समरसापत्या ॥८॥ प्रकरणम्. समेतम्. ___ य० शुभभावार्थ पूजा शुभभावनिमित्तं पूजा सापि पुष्पादिभिः स्तोत्रेभ्यः स्तुतिभ्यः सच भावः परः प्रकृष्टः शुभो ॥४९॥ भवति शुभहेतुर्जायते । एवं च पुष्पवस्त्रादीनामिव स्तोत्राणामपि प्राकनाध्यवसायापेक्षया शुभतरपरिणामनिबन्धनत्त्वेन 18 पूजाहेतुत्वं सिद्ध्यति । कथं पुनः स्तोत्रेभ्यः शुभो भाव इत्याह सद्भूतगुणोत्कीर्तनसंवेगात् । सद्भूतानां विद्यमानानां तलथ्यानां च गुणानां ज्ञानादीनां यत्कीर्तनं तेन संवेगो मुक्त्यभिलाषस्तस्मात् समरसापत्त्या समभावे रसोऽभिलाषो यस्यां सा समरसा सा चासावापत्तिश्च प्राप्तिरधिगतिरधिगम इत्यनर्थान्तरं तया हेतुभूतया समरसापत्त्या परमात्मस्वरूपगुणज्ञानोपयोगरूपया परमार्थतस्तद्भ(द्भावनेन तदुपयोगानन्यवृत्तितया स्तोत्रेभ्य एव शुभो भावो भवतीतितात्पर्य्यम् ॥८॥ उ० कथं पुनः स्तोत्रेभ्यः पूजा स्यादित्याह । शुभेत्यादि । शुभभावार्थ पूजा सर्वापि पुष्पादिभिरिष्यते स च भावः स्तोत्रेभ्यः परः प्रकृष्टः शुभो भवति सद्भूतानां विद्यमानानां गुणानां ज्ञानादीनां यत्कीर्तनं तेन संवेगो मोक्षाभिलाषस्ततः समे भावे रसोऽभिलाषो यस्यां तादृश्यापत्त्या प्राप्त्या हेतभूतया परमात्मगुणोपयोगेन परमार्थतस्तदनन्यवृत्तिलक्षणया ततश्च 'पुष्पादितः शुभतरपरिणामनिबन्धनत्त्वेन स्तोत्राणां विशिष्टपूजाहेतुत्त्वं सिद्धं भवति ॥८॥ अधुना अन्यथा पूजाया एव भेदत्रयमाह ॥ ॥४९॥ कायादियोगसारा त्रिविधा तच्छुद्धयुपात्तवित्तेन । या तदतिचाररहिता सा परमान्ये तुसमयविदः॥९॥|| Jain Education international For Private Personal Use Only wwwjanary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy