SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ त्राक्षरसंयोगैश्छन्दोऽलङ्कारवशेन । आशयविशुद्धिजनकैर्भावविशुद्ध्यापादकैः संवेगपरायणैः संवेगः संसारभयं मोक्षाभिलाषो वा । परमयनं गमनं येषु तानि परायणानि संवेगे परायणानि संवेगपरायणानि तैः पुण्यहेतुत्त्वात्पुण्यानि तैः॥६॥ पापानां रागद्वेषमोहकृतानां स्वयंकृतत्त्वेन निवेदनं परिकथनं तद्गर्भो हृदयमन्तर्गतभावो येषां तानि तैः पापनिवेदनगर्भः प्रणिधानमैकाग्र्यं तत्पुरस्सरैरुपयोगप्रधानैरितियावत् । विचित्रार्थैर्बहुविधाथैः । अस्खलितादिगुणयुतैरस्खलितममिलितम-2 व्यत्यामेडितमित्यादिगुणयुक्तैरभिव्याहारमाश्रित्य स्तोत्रैश्च स्तुतिविशेषैश्च महामतिग्रथितैर्महाबुद्धिपुरुषविरचितसन्दभैरियं पूजा कर्त्तव्येति पश्चात्सम्बन्धनीयं ॥ ७॥ उ० इयमधिकृता पूजा पुष्पामिषस्तोत्रादिभेदेन बहुविधा तत्र पुष्पादिपूजामभिधाय स्तोत्रपूजां कारिकाद्वयेनाह । पिण्डेत्यादि । पापेत्यादि । पिण्डः शरीरमष्टोत्तरलक्षणसहस्रलक्षितं क्रिया सर्वातिशायिदुर्वारपरीषहजयाद्याचाररूपा गुणा जीवस्वभावाविनाभूताः सामान्येन ज्ञानादयो विशेषेण केवलज्ञानादयस्तद्गतैस्तद्विषयः गम्भीरैः सूक्ष्ममतिगम्याथै विविधाश्छन्दोऽलङ्कारभङ्गया विचित्रा ये वास्तैः संयुक्तैराशयविशुद्धेर्नवमरसाभिव्यञ्जनया चित्तशुद्धेर्जनकैः संवेगो भवभयं मोक्षाभिलाषो वा परमयनं गमनं येषु तानि तथा तैः पुण्यहेतुत्वात् पुण्यैः ॥ ६॥ पापानां रागद्वेषमोहकतानां, स्वयंकृतत्वेन निवेदनं गर्भोऽन्तर्गतभावो येषां तानि तथा तैः प्रणिधानमैकाग्र्यं तत्पुरस्सरैरुपयोगप्रधानैरितियावद्विचित्रार्थैर्बहुवि-1 धार्थयुक्तैरस्खलितादयो गुणा अस्खलितामिलिताव्यत्यारोडितादिलक्षणास्तैर्युतैरभिव्याहारकाले स्तोत्रैश्च महामतिभिर्वि||शिष्टबुद्धिभिग्रथितैरियं पूजा कर्त्तव्येति पश्चात्सम्बन्धनीयं ॥७॥ श्रीषो. ९ JainEducationa lonal For Private Personal Use Only Hejainelibrary.org
SR No.600136
Book TitleShodshaka Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorBuddhisagar
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages230
LanguageSanskrit
ClassificationManuscript
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy